SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे माध्यस्थाटकम् KEareeDEIDEVGoa यैस्ते स्वस्वकर्ममावेशा: तथा स्वस्वकर्मभोक्तारः, तेषु मध्यस्थः स्यात् , स्वस्वकर्मविपाकोदये शुभे चाशुभे च प्राप्ते सति समानचेतोवृत्तिधारको मध्यस्थः न रागद्वेषौ समुद्हतीति / मनः स्याद्वयापृतं यावत्, परदोषगुणग्रहे / कार्य व्यग्रं वरं ताव-न्मध्यस्थेनात्मभावने // 5 // व्याख्या-यावदवधि परकीयदोषगुणग्रहणे मनः प्रवृत्तं स्यात्तावावधि मध्यस्थः पुमान् आत्मध्याने समासक्ति विदध्यादिति वरं परस्मिन् मनश्चिन्त रूपं स्य दात्मनि समाधिरूपं स्यादेतावान् विशेो ज्ञेयः / 5 / परदोषगुणग्रहणे यावन्मन: व्यापृतं प्रवृत्तं स्यात् तावन्मध्यस्थेन पुरुषेण आत्मस्वरूपचिन्तने व्यप्रं तदायत्तं वरं प्रधान कार्यमिति। अनेनात्मस्वरूपस्यामूर्तस्यागुमलघुग्गुणहानिवृद्धिपरिणमन त्पादव्ययध्रौव्यलक्षणस्वरूपादिचिन्तनव्यग्रस्य सांसारिकगुणदोषचिन्तनावकाश एव न भवति, अत एव निग्रन्थास्तदेव चिन्तयन्ति, भावनाचक्र घोषयन्ति, द्रव्यानुयोगग्रन्थं प्रश्नयन्ति, परस्परस्वभावविभावपरिणमनं विलोकयन्तीति / विभिन्ना अपि पन्थानः, समुद्र सरितामिव / मध्यस्थानां परं ब्रह्म, प्राप्नुवन्त्येकमक्षयम् // 6 // व्याख्या-यथा नदीनां भिन्ना भिन्नाः अपि अध्वानः समुद्रं प्राप्नुवन्ति तथा मध्यस्थानां जिनकल्पः अथवा स्थविरकल्पादिका विभिन्नाः पन्थानः एकं क्षयरहितमुत्कृष्ट ब्रह्म प्राप्नुवन्ति / / 6 / / . - अनेकभेदभिन्ना अपि पन्थानः मार्गसाधनपद्धतयः द्रव्याचरणतः शुक्लध्यानं यावत्सम्यग्दृष्ट्यपुनर्बन्धकादयो जिनकल्पाद्या मध्यस्थभाववर्तिनामे कमक्षयं परं ब्रह्म प्राप्नुवन्ति, सर्वे साधनोपाया एक शुद्धमात्मस्वरूपं समवतरन्ति सर्वेषां मोक्षसाधकानां साध्यकत्वात् , कमिव ? समुद्रमिव सरितां यथा नदीनां विभिन्ना अपि पन्थानः सर्वे समुद्रं गच्छन्ति / NOTEacacacaaca -1181 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy