________________ माध्यस्था शानसारे || स्वागर्म रागमात्रेण, द्वेषमात्रात्परागमम् / न श्रयामस्त्यजामो वा, किन्तु मध्यस्थया शा॥७॥ व्याख्या-निजसिद्धान्तं विचाररहितगगमात्रान स्वीकुर्मः, अन्य सिद्धान्तं विवेकरहितद्वेषमात्रान त्यजामः, अपितु मध्यस्थदृष्टया विचार्य स्वसिद्धान्तस्वीकारं परसिद्धान्तत्यागं वा कुर्मः। उक्तं च पक्षपातो न मे वीरे, न द्वेषः कपिलादिषु / युक्तिमद्वचनं यस्य, तस्य कार्यः परिग्रहः // 1 // मम श्रीमति महावीरे कश्चित्पक्षपातो नास्ति, कपिलादिमुनिषु कश्चिद्वेषो नास्ति किन्तु यस्य वचनं युक्तिमदस्ति तदङ्गीकरणीयमिति // 7 // स्वागमं वयं न रागमात्रेण श्रयामः / यथाऽस्मत्परम्परानुगतैरिदमेवाभिहितमस्माकं कल्पमिदमिति रागानुरक्तत्वेन न जिनागमे रागः, वाऽथवा परागमं कपिलादिशास्त्रं न केवलं द्वेषमात्रेण परकीयत्वात् त्यजामः, किन्तु परीक्षया यथार्थवस्तुम्वरूपनिरूपणेन सम्यग्ज्ञानहेतुत्वान्मध्यस्थया दृशा जिनागमं श्रयामः उक्तं चन श्रद्धयैव स्वयि पक्षपातो, न द्वेषमात्रादरुचिः परेषु / यथावदाप्तत्वपरीक्षया तु, त्वामेव वीरं प्रभुमाश्रयामः // 1 // इत्यादि श्रीगुरुमुखतो देशनां श्रुत्वाऽहन्मित्रकुमारः स्वदारनियम जग्राह / अथाग्रजभार्या देवर हावभावकटाक्षनिक्षेपमन्जुलवाण्याऽनुकूलोपसर्ग करोति प्रत्यह, परं लघुर्नेच्छति / स्त्रीस्वरूपं तादृशं मत्वा स्वव्रतरक्षणार्थ पञ्च महाव्रतानि ललौ / तद्रक्ता सा मृता शुनी जाता / अन्यदा विहरन् सोऽहन्मित्रषिः सहसा तं प्रदेशमाययौ। शुन्या स मुनिदृष्टः / सा तं पतिमिवालिलिङ्ग / नष्टः साधुः / साऽथ मृता महाटव्यां मर्कटी अमूव / ततो भवितव्यतायोगात्तस्यामेवाटव्यां स मुनिरगाव / तं मुनि दृष्ट्वा पूर्ववदालिलिङ्ग // 82 // रागधिया, तदाऽपरे साधवो जहसुः-'असौ साधुर्मर्कटीपतिः' तदुक्त्या रुष्टः स लज्जया शीघ्रं तत्प्रदेशान्नष्टः / मर्कटी मृता यक्षिण्यभूव, GEOEGESTORICARICA Doraelaelocesseme