SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ कानबारे माध्यस्था DICASSOCIATIONAL तद्रहितं यथा स्यात्तथा स्थीयतामिति / मनोवत्सो युक्तिगवी, मध्यस्थस्यानुधावति / तामाकर्षति पुच्छेन, तुच्छाग्रहमनःकपिः // 2 // ____ व्याख्या मध्यस्थपुरुषस्य मानसरूपो वत्सः युक्तिरूपां गामनुगच्छति, तुच्छाग्रहवतः पुंसः चित्तरूपो मर्कटः तं पुमांस | | पुच्छेन आकर्षति, यत्र युक्तिः स्यात् तत्र मध्यस्थस्य चित्तं समागच्छेत्, कदाग्रहिणस्तु चित्तं युक्ति कदर्थयेत् // 2 // | नयेषु स्वार्थसत्येषु, मोघेषु परचालने / समशीलं मनो यस्य, स मध्यस्थो महामुनिः // 3 // व्याख्या-वस्वाभिप्राये सत्याः अन्यनययुक्तिखण्डने च निष्फलाः ये नया तेषु नयेषु यस्य मनः पक्षपातरहितसमानखभावं धत्ते स महामुनिः मध्यस्थोऽस्ति / | नियनियवयणिजसच्चा, सव्वणया परवियालणे मोहा / ते पुण ण दिइसमयो, विभयह सच्चेव अलिए वा // (सन्मति. का. १,गा 28) सर्वे नयाः स्वखवक्तव्ये सत्याः सन्ति अन्यस्य वक्तव्यखण्डने असत्याः सन्ति, किन्तु अनेकान्तसिद्धान्तविज्ञः तेषु | नयेषु अयं सत्यः अयमसत्यः इत्येवं न विभजते // 3 // स्वस्वकर्मकृतावेशाः, स्वस्वकर्मभुजो नराः / न रागं नापि च द्वेष,. मध्यस्थस्तेषु गच्छति // 4 // ___ व्याख्या-खस्वकर्मसु कृताग्रहाः स्वस्वकर्माधीनाः स्वस्वकर्मणां फलस्य भोक्तारो ये सन्ति तेषु मानवेषु मध्यस्थाः पुमांसः | रागद्वेषौ नाप्नुवन्ति // 4 // तेषु कर्मोदयेषु ( नरेषु ) मध्यस्थः समचित्तः न रार्ग न घष गच्छति / कीरशा नराः ? वे स्वे कर्मणि कृत आवेशो acar CONTACTOSTOGOSTICA // 8 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy