SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ झानसारे विवेकाष्टकम् aaaaaaacaacac .. // अथ पञ्चदशे विवेकाष्टके श्रमणभद्रमुनिकथानकम् // चम्पायां जितशत्रुनृपसुतः श्रमणभद्राह्वोऽजनि / स एकदा धर्मघोषगुरोः पार्श्वे धर्ममशृणोद, तथाहि यथा योधैः सुभटैः कृतं युद्धं नृपे उपचर्यते अयं नृपो जितः अयं पराजित इत्युक्तिों के भवति तथा शुद्ध आत्मनि अविवेकेन असंयमेन कर्मस्कन्धस्योर्जितं साम्राज्यमुपचर्यते-उपचारः कियते इत्यादिधर्मोपदेशाद्विरक्तः कामभोगेभ्यः स महात्मा व्रतमगृहीत् / गुरोः प्रसादास श्रुताम्भोनिधिपारीण एकाकित्वविहाराख्यां प्रतिमां प्रपन्नवान् / अन्यदा स मुनिर्निम्नभूमिप्रदेशेषु विहरन् शरत्काले महारण्ये निशि प्रतिमया तस्थौ / तत्र सूचिसमानवदनाः सहस्रशो दंशाः कोमले तस्य शरीरे विलग्य शोणितं पपुः / निरन्तरविलग्नर्दशनतत्परैस्तैदशैः स्वर्णवर्णोऽपि स मुनिर्लोहवर्ण इवाबभौ / दशत्सु तेषु तस्योच्चैर्वेदनाऽऽसीत् तथापि शान्तिक्षमः स तां तितिक्षामास, न तु तान्ममार्ज, दध्यौ च-दंशोत्थाऽसौ व्यथा मम कियती ? इतोऽप्यनन्तगुणिता नरकेषु सा सोढा, यतः परमाधार्मिकोल्पना, मिथोजाः क्षेत्रजास्तथा / नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न // 1 // किंच अन्यद्वपुरिदं जीवा-ज्जीवश्चान्यः शरीरतः / जानन्नपीति को दक्षः, करोति ममतां तनौ // 2 // पुद्गलपिण्डो देहोऽनित्यः, जीवस्तु अमूर्तोऽचलो ज्ञानाद्यनन्तचेतनालक्षणः स्वरूपकर्ता स्वरूपभोक्ता स्वरूपरमणो भवविश्रान्तः पुद्गलकर्तृत्वादिभावरहित इत्यादि विवेकज्ञानं भावयन् स तां व्यथा सहमानो दंशैः शोषितशोणितो रात्रावेव स्वर्ग जगामेति / इति विवेकगुणं हृदि धारयन्, श्रमणभद्रमुनिस्त्रिदशोऽभवत् / तदपरैरपि साधुवरैरयं, जिनवचो निपुणैरुररीकृतः // 1 // // इति पञ्चदशे विवेकाष्टके श्रमण भद्रमुनिकथानकम् // 15 // DIESENBESTEDADE // 78 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy