SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ बानसारे ACTES DESC BERGE विवेकाष्टकम् इच्छन्नपरमान भावान्, विवेकाः पतत्यधः। परमं भावमन्विच्छन्, नाविवेके निमज्जति // 6 // N व्याख्या-उत्कृष्टभावाननिच्छन् परममावग्राहकनयसम्मतशुद्धचैतन्यमावं परित्यज्यान्यसात्त्विकराजसतामसभावानिच्छन् विवेकरूपारेरप्रमत्तभावरूपशिखरादधः पतति, सर्वतो विशुद्धात्ममावमन्विच्छन् अविवेकान्धौ न निमजति, अत एव साधुः अपूर्वकरणेनानन्तद्धि प्राप्नोति किन्तु न तत्रासक्तिं धत्ते / "सातद्धिरसेप्वगुरुः, प्राप्यद्धिविभूतिमसुलभामन्यैः / सक्तः प्रशमरतिसुखे, न भजति तस्यां मुनिः संगम् / " "या सर्वसुरवरद्धिविस्मयनीया न ( च ) जात्वनगारर्द्धिः (द्धेः)। नार्घति सहस्रभागं कोटिशतसहस्रगुणिताऽपि // " | अर्थ:-अन्यप्राणिभिः दुष्पापायाः ऋद्धेः-लब्धेः विभूतिं प्राप्य सातागौरवेण ऋद्धिगौरवेण रसगौरवेण च रहितो मुनिः प्रशमरतिसुखे मग्नो भवति परन्तु स ऋद्धेः सखे आसक्तो न भवति.या विस्मयं प्रापयति सा सर्वदेवस्य ऋद्धिरस्ति सा लक्षवारं गुण्यते तथापि साधोरात्मिकसम्पत्तेः सहस्रांशेऽपि न घटते // 6 // आत्मन्येवात्मनः कुर्या-द्यः षट्कारकसंगतिम् / क्वाविवेकज्वरस्यास्य, वैषम्य जडमजनात्॥७॥ व्याख्या-यो नरः आत्मविषये आत्मनः षट्कारकस्यार्थस्य संगति-सम्बन्धं करोति तस्य पुद्गलप्रसंगात् अविवेकरूपज्वरस्य विषमता कुतः स्यात्, जडमजनाव-जलस्नानात् अविवेकिनः ज्वरवतः विषमज्वरो भवत्येवेति श्लेषच्छायाऽस्ति // 7 // ||77 // DIGIOSGOOGasclacIGCS
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy