________________ ज्ञानसारे विवेकाष्टकम् स्मन्येव परमात्मानम्-उप्कृष्टज्ञानवन्तमात्मानं पश्यन्ति / बाह्मात्मा मिथ्याज्ञानी प्रथमगुणस्थानके, अन्तरात्मा सम्यग्दृष्टिः चतुर्थगुणस्थानकादारभ्य द्वादशगुणस्थानकपर्यन्तं, परमात्मा च केवलज्ञानी त्रयोदशे चतुर्दशे च गुणस्थानके भवति। यो व्यक्तिरूपेण बाहथात्मा भवति स शक्त्या अन्तरात्मा मवति, यः व्यक्त्या अन्तरात्मा स्यात्स शक्त्या परमात्मा स्यात्, परमात्मा भूतपूर्वगत्या वाह्यात्मा कथ्येत किन्तु व्यक्त्या परमात्मा स्यादेव, परमात्मा स्यावाद्यात्मा तथाऽन्तरात्मा भूतपूर्वगत्यैव प्रोच्येत, इयं नयवचनिका ज्ञेया // 8 // // इति चतुर्दशं विद्याष्टकम् // ACATASTALACION ACAC // अथ पञ्चदश विवेकाष्टकम् // कर्मजीवं च संश्लिष्ट, सर्वदा क्षीरनीरवत् / विभिन्नीकुरुते योऽमौ, मुनिहंसो विवेकवान् // 1 // व्याख्या-जलदुग्धवत् ज्ञानावरणादिकर्म जीवश्च सर्वदा एकत्र मोलितोऽस्ति, तं यः साधुरूपः हंसः लक्षणादिभेदेन भिन्नं कर्यात् स विवेकी प्रोच्यते / जीवाजीवयो यद् भेदज्ञानं स विवेकः // 1 // देहात्माद्यविवेकोऽयं, सर्वदा सुलभो भवे / भवकोट्यापि तद्भेद-विवेकस्त्वतिदुर्लभः // 2 // व्याख्या-संसारे शरीरात्मादिशब्दैः चित्तचैतन्यादीनामविवेकोऽमेदः सर्वदा सुप्रापोऽस्ति, कायात्मादिभेदपरिशानं जन्म OMGICAGICGaoad INT75 //