________________ शानसारे विद्याष्टकम् DescellaicaCare भयकृत् / कथंमते देहे ? शुचीन्यपि-कर्पूरादीन्यपि अशुचीकत्तु-मलिनीकत्तुं समर्थे, देहसंगान्मलयजविलेपनादयोऽप्यशुनीभवन्ति / पुनः अशुचिसंभवे अशुचि-आर्तवं रक्तं पितुः शुक्र (च) तेनोत्पत्तिर्यस्य स तस्मिन्, उक्तं च सुक्क पिउणो माउए सोणियं तदुभयं पि संसहूं / तप्पढमाए जीवो, आहारे तत्थ उप्पनो // 1 // अतोऽस्थिरेऽपवित्रे औपाधिके अभिनवकर्मबन्ध कारणे द्रव्यभावाधिकरणे कः संस्कारः ? अतस्तनिवार्य स्वरूपे आत्मनः पावित्र्यं कार्यम् / तदुपदिशति| यः स्नात्वा समताकुण्डे, हित्वा कश्मलज मलम् / पुनर्न याति मालिन्यं, सोऽन्तरात्मा परः शुचिः।५।। व्याख्या-यो जनः समतारूपे कुण्डे स्नानं विधाय पापोत्पन्नमलं परित्यज्य पुनः मलिनतां नाप्नोति, सोऽन्तरात्मा | सम्यक्त्ववासितामा अत्यन्तपवित्रोऽस्ति / "बन्धेण न रोलड़ कयावि / " सम्यग्दृष्टिः कदापि बन्धनेन अन्तःकोटाकोटिसागरोपमस्थिति नातिकामति ततोऽधिकस्थितिबन्धं न करोति, अनेन न्यायेन सम्यग्दृष्टिरभूत् तत एवांशतः केवलज्ञानी अभूत, यतः उत्कृष्टस्थितिबन्धरूपं मलं सम्यग्दृष्टिं नाधिश्रयति, इदमेव सहजपवित्रत्वं ज्ञेयम् // 5 // आत्मबोधो नवः पाशो, देहगेहधनादिषु / यः क्षिप्तोऽप्यात्मना तेषु, स्वस्य बन्धाय जायते॥६॥ ___व्याख्या-कायगृहधनादिपदार्थेषु आत्मत्वज्ञानमहं मम एतादृगहंभावः ममत्वभावो वा नवीनः लोकोसरः पाशोऽस्ति, योऽसौ पाशः आत्मना देहादौ निक्षिप्तः तथापि आत्मनः स्वस्यैव बन्धनाय भवति, अन्यो लौकिकपाशस्तु यं प्रति निक्षिप्तो भवति तं बध्नाति, देहादी आत्मज्ञानरूपः पाशः देहादी निक्षिप्तोऽपि देहादिन बध्नाति किन्तु निक्षेप्तारमात्मानं बध्नाति इति / OrKaracaeldCaCIDEDICE // 72 //