________________ ज्ञानसारे विचाष्टकम् XIADOSTADSDESDE यः पश्येन्नित्यमात्मान-मनित्यं परसंगमम् / छलं लब्धु न शक्नोति, तस्य मोहमलिम्लुचः // 2 // व्याख्या-यः नित्यं-सदाऽविचलितस्वभावमात्मानम् पश्यति तथा परसंयोगमनित्यं अध्रुवम्-अस्थिरं पश्यति तस्य, पुंसः छलं छिद्रं प्राप्तुं मोहरूपचौरः कदापि न शक्नोति // 2 // // अथ चतुर्दशे विद्याष्टके समुद्रपालकथानकम् // चम्पायां समुद्रदत्ताः इभ्यः श्रीमद्वीरपरमेश्वरतः प्रतिबुद्धः सुश्राद्धो निर्मन्थप्रवचने कोविदोऽभूव, निम्रन्थपवचनं चेदम्तरङ्गतरला लक्ष्मी-आयुर्वायुवदस्थिरम् / अदभ्रधीरनुध्याये-दभ्रवद्भङ्गुरं वपुः // 3 // व्याख्या-निपुणबुद्धिः पुमान् समुद्रतरङ्गवच्चपलां लक्ष्मी, पवनवत् अस्थिरमायुः, मेघवन्नवरं शरीरं च चिन्तयेत् // 3 // अद्भधी:-पुष्टबुद्धिः लक्ष्मी तरङ्गवत् चपलाम्-अस्थिरामनुध्यायेत्, आयुः वायुवदस्थिरं-प्रतिसमयविनश्वरमध्यवसायादिविघ्नोपयुक्तं चिन्तयेत्, वपुः-शरीरम् अदभ्र-मेघवद्रगङ्गुरं भङ्गशीलं चानुध्यायेत् / शुचीन्यप्यशुचीकत्त, समर्थेऽशुचिसम्भवे / देहे जलादिना शौच-भ्रमो मूढस्य दारुणः // 4 // व्याख्या- कर्पूरकस्तूरीप्रभृतीनि पवित्रवस्तून्यपि अपवित्रीकत समर्थे पित्रोः रजोवीर्याभ्यामपवित्राभ्यां चोत्पन्ने काये जलमृदादिभिः पवित्रता भ्रमो मूढस्य महाभयङ्करोऽस्ति // 4 // मूढस्य-अज्ञस्य यथार्थोपयोगरहितस्य देहे-इन्द्रियायतने जलादिना-नीरमृत्तिकादिसंयोगेन शौचं, भ्रमः श्रोत्रियादीनां दारुणः // 72 //