________________ शानसारे विर्याष्टकम् ज्योतिर्मयीव दीपस्य, क्रिया सर्वाऽपि चिन्मयी / यस्यानन्यस्वभावस्य, तस्य मौनमनुत्तरम् // 8 // ___व्याख्या-यथा प्रदीपस्योर्वगमनाधोगमनप्रभृतयः सर्वाः क्रियाः प्रकाशमयाः सन्ति, तथा न अन्यस्य स्वभावो यस्य स तथाभूतस्तस्य प्रगलभावेषु अआप्तपरिणामस्य यस्याहारविहारप्रभृतयः सर्वाः क्रियाः ज्ञानमयाः सन्ति, तस्य मुनेः मौनमुत्कृष्टं बोद्धव्यम्- वियद्वस्तुस्वभावानुगेधादेव तत्कारकात् / वियत्सम्पूर्णता तदुत्पत्ती कुम्भस्येव दृशात्मनः // 1 // आकाशस्य वस्तुस्वभावमनुसृत्य घटकारणसामग्रीतो घटरूपकार्योत्पत्तौ घटाकाशस्य पूर्णता भवति तथा आत्मनः समस्ताः क्रियाः ज्ञानदृष्टया चैतन्यमयाः भवन्ति // 8 // // इति त्रयोदशं मौनाष्टकम् / / ODDODDISCOS BOOOOOOOOOEWE // अथ चतुर्दर्श विद्याष्टकम् // नित्यशुच्यात्मताख्याति-रनित्याशुच्यनात्मसु / अविद्या तत्त्वधीविद्या, योगाचार्यैः प्रकीर्तिता // 1 // व्याख्या-अनित्येषु आत्मभिन्नपुद्गलादिषु नित्यत्वबुद्धिः तथा नवद्वारैः मलं वहति अशुचौ शरीरे पवित्रताज्ञानम्, आत्मभिन्नपुद्गलादौ आत्मत्वज्ञानमहबुद्धिः तथा ममत्वबुद्धिर्या भवति, सा अविद्या कथ्यते, तत्त्वबुद्धिः अर्थात् शुद्धात्मद्रव्ये पविप्रत्वात्मत्वधीः यथार्थज्ञानं विद्याऽभिधीयते / इत्येवं योगाचार्यैः पतञ्जलिप्रभृतिभिः निरूपितम् // 1 // 1170 //