________________ शानसारे मौनाष्टकम् बवल GOOGelaelaCaCIGHeera पिका अप्यभ्येयुः, तत्र ते द्वौ मार्गों दृष्टा इति तं मुनिं पप्रच्छु:-हे साधो ! सगोधनाश्चौरा केन पथा जग्मुः " तच्छत्वाऽपि मुनिस्तेषां न किंचिदुत्तरं ददौ / यतःसुलभ वागनुच्चार, मौनमेकेन्द्रियेष्वपि / पुद्गलेष्वप्रवृत्तिस्तु, योगानां मौनमुत्तमम् // 7 // व्याख्या-वचसामनुच्चारणं मौनमेकेन्द्रियजीवेषु सुलभतया अस्ति किन्तु पुद्गलेषु योगानां-कायवचनमनसां यदप्रवृत्तिः अव्यापारः तदुत्कृष्ट मौनमस्ति / इदमेव मौनं मुनेरस्ति // 7 // वागनुचारं वचनाप्रलापरूपं मौनं सुलभं सुप्रापं, तदेकेन्द्रियेष्वप्यस्ति, तन्मौन मोक्षसाधकं नास्ति, पुदूगलेष्वप्रवृत्तिः रम्यारम्यतयाऽव्यापकत्वं मौनमुत्तमं प्रशस्यम् / स्वरूपलीनः स कुरुदत्तमुनिः कथं सावध वाक्यं सत्यमपि जल्पति ? यतः-'न सत्यमपि भाषेत परपीडाकरं वचः' ततस्ते चौरान्वेषकाः कुपिता वारिक्लिन्नां मृत्तिकामादाय ते दुष्टचेतसः तस्य मुनेः मौलौ पाली बबन्धुः / तत्र क्रोधविह्वलास्ते चिताङ्गारान् क्षिप्त्वा ययुः, तैज्वलन्मौलिरपि मुनिः हृद्येवमचिन्तयत्सह कलेवर ! खेदम्रचिन्तयन् , स्ववशता हि पुनस्तव दुलैमा / बहुतरं च सहिष्यसि जीव हे, परवशो न च तत्र गुणोऽस्ति ते // 1 // इति ध्यायन् यतिन हि मौलिं मनश्चाकम्पयत् / तमुपसर्ग सहित्वा परलोकमसाधयत् // मौने मुनित्वं परिभाव्य सम्यगज्ञानादिमन्तः कुरुदत्ताधे / चरन्ति तन्मौनमपास्य दम्मान्, ते स्युर्धवं स्यात्पदसौख्यसत्काः // 1 // // इति त्रयोदशे मौनाष्टके कुरुदत्तकथानकम् // 13 // STIEDOT // 69 //