SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सानसारे मोनाष्टकम् गजपुरे महेभ्यपुत्रः कुरुदत्तः महासुखी / स एकदा श्रीधर्मगुरुदेशनासमये गतः इति श्रीस्याद्वादाप्तवाक्यं हृदये बभार"आत्मज्ञानप्राप्त्यर्थमेवं विवदन्ति अनेकदर्शनान्तरीयाः प्राणायामन्ति रेचकादिपवनमवलम्बयन्ति मौनं, भ्रमन्ति गिरिवननिकुशेषु, तथाप्यहत्प्रणीतागमश्रवणाप्तस्याद्वादं स्वपरपरीक्षापरीक्षितं स्वस्वभावावबोधमन्तरेण न कार्यसिद्धिः / यतः आत्माज्ञानभवं दुःख-मात्मज्ञानेन हन्यते / अभ्यस्तं तत्तथा तेन, येनात्मा ज्ञानमयो (नवान्) भवेत् // अत्रोपादानस्वरूपे षट्कारकचक्रमय एवात्मा-स्वयमेव कर्ता कार्यरूपोऽपि का कारणरूपः सम्प्रदानापादानाधिकरण: स्वयमेवेति, महाभाष्येऽप्युक्तम्-आस्मा जीवः कर्त्तारूप आत्मानमनन्तशुद्धधर्मकार्यस्वायत्तमात्मनाऽऽत्मीयशक्तिकरणमूतेन भात्मने आत्मधर्मप्रादुष्करणाय आत्मनः परभावात् पृथगात्मनि आधारभूतेऽनन्तधर्मपर्यायपात्रभूते इति, अत आत्मस्वरूपमग्न एव मुनिः (वर्तते) यतःयथा शोफस्य पुष्टत्वं, यथा वा वध्यमण्डनम् / तथा जानन भवोन्माद-मात्मतृप्तो मुनिर्भवेत् // 6 // . व्याख्या-यथा शोफस्य-उत्फुलस्य पुष्टत्वं पुष्टिः, अथवा यथा वध्यस्य-हन्तुं योग्यस्य जन्तोः पुष्पमालाभरणं कृतं भवति तथा संसारस्योन्मादं विदन्मुनिः आत्मन्येव तृप्तो भवति // 6 // यथा शोफस्य पुष्टत्वं शरीरस्थौल्यं न पुष्टत्वे इष्टम् / अथवा यथा बध्यस्य मारणार्थ स्थापितस्य मण्डनं करवीरमालाधारोपणात्मकम्, एवं रूपं भवोन्मादं जानन् भवस्वरूपमेवंविधं जानन् मुनिः समस्तपरभावत्यागी आत्मतृप्तः आत्मस्वरूपेऽनन्तगुणात्मके तृप्तः तुष्टः भवेद संसारस्वरूपमसारं निष्फलमभोग्यं तुच्छं ज्ञात्वा मुनिः स्वरूपे मग्नः स्यात् / इत्याद्यात्मस्वरूपं श्रीगुरुमुखाच्छ त्वा प्रबुद्धः कुरुदत्तः प्रबन्यां जग्राह / श्रुतं चाधीत्यान्यदा एकाकिविहारप्रतिमा प्रतिपेदे / सोऽर्थकदा बिहरन्साकेतनगरान्तिके तुर्यपौरुष्यां धैर्यमन्दरः प्रतिमया तस्थौ, तदा चौराः कुतश्चन प्रामाद्गोधनं हत्वा तस्य मुनेः पावस्थेनाभ्वना ययुः / अब साधुपाश्चं गोधनान्वे Darodaee // 68 / /
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy