SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे मौनाष्टकम् verseDEIGO ONDES DESODIO ___ आस्मानमात्मना वेत्ति, मोहत्यागाद्यदात्मनि / तदेव तस्य चारित्रं, तज्ज्ञानं तच्च दर्शनम् // 1 // चारित्रमात्मचरणाद्, ज्ञानं वा दर्शनं मुनेः / शुद्धज्ञाननये साध्यं, क्रियालाभात् क्रियानये // 3 // ___ व्याख्या-आत्मन्येव चलनात् पुद्गलेम्पो निवृत्तिकरणात् चारित्रम् , बोधस्वरूपाद् ज्ञानम् , जिनोक्तभावस्य श्रद्धारूपत्वाद्दर्शनम् , एवं ज्ञानाद्वैतनयाभिप्रायेण मुनेः साध्यमस्ति तदेकमेव वस्तु भेदनयापेक्षया त्रिरूपमस्ति, ज्ञानस्य फलरूपक्रियालामात् क्रियानयस्याभिप्रायेणैकता ज्ञेषा, विषयप्रतिभासव्यापारे ज्ञानम्, आत्मपरिणामव्यापारे सम्यक्त्वम् , आस्रवप्रतिबन्धात्तत्वज्ञानव्यापारे चारित्रमित्थं व्यापारमेदाद् ज्ञानं त्रिरूपं प्रतिपादितम् // 3 // यतः प्रवृत्तिन मणौ, लभ्यते वा न तत्फलम् / अतात्त्विकी मणिज्ञप्ति-मणिश्रद्धा च सा यथा // 4 // व्याख्या-यथा यतो मणौ प्रवृत्तिर्न स्यादथवा अलङ्कारादौ आयोजनरूपप्रवृत्ते: फलं नाप्नुयात् , तर्हि तन्मणिज्ञानम् , अयं मणिरिति श्रद्धा च वास्तविका असल्या अस्ति // 4 // तथा यतो न शुद्धात्म-स्वभावाचरणं भवेत् / फलं दोषनिवृत्तिा , न तज्ज्ञानं न दर्शनम् // 5 // व्याख्या-तथा.येन विमलात्मस्वभावस्याचरणं न स्याद् वा विशुद्धात्मलाभस्य फलं रागद्वेषात्मकस्य दोषस्य निवृत्तिरूपं न स्यात् , तद् झानं नास्ति, तद् दर्शनं नास्ति-सम्यक्त्वमपि नास्ति // 5 // अथ त्रयोदशे मौनाष्टके कुरुदत्तकथानकम् // 13 // O // 67 // Ge
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy