________________ ज्ञानसारे निःस्पृहाष्टकम् Relaeraeseeloperorales व्याख्या-निश्चयनयेनात्मा लिप्तो नास्ति अर्थात्कर्मणाऽबद्धोऽस्ति / व्यवहारनयेन तु आत्मा लिप्तोऽस्ति कर्मणा बद्धो| ऽस्ति,ज्ञानयोगी शुद्धध्यानात् अलिप्तदृष्टया शुद्धति, क्रियावान् लिप्तत्वदृष्ट्या शुद्धो भवति अर्थात् लिप्ततां दूरीकर्तुमभ्यस्यति // 6 // | ज्ञानक्रियासमावेशः, सहैवोन्मीलने द्वयोः / भूमिकाभेदतस्त्वत्र, भवेदेकैकमुख्यता // 7 // व्याख्या-द्वयोः दृष्टयोः सममेव विकाशे सति ज्ञानक्रिययोः समावेशः एकीभावो भवति, गुणस्थानकरूपायाः भूमि- | काया भेदात् अत्र ज्ञानक्रिययोः एकैकस्य मुख्यता मवति, ध्यानदशायां ज्ञानस्य, व्यवहारदशायां क्रियायाः मुख्यता भवति॥७॥ सज्ञानं यदनुष्ठानं, न लिप्त दोषपङ्कतः। शुद्धबुद्धस्वभावाय, तस्मै भगवते नमः // 8 // व्याख्या-यस्य ज्ञानयुक्तक्रियारूपानुष्ठानं दोषरूपपङ्कात् न लिप्तं तस्मै शुद्धो निर्मल: बुद्धो टोत्कीर्णज्ञानरूपः स्वभावो यस्य तादृशाय भगवते नमस्कारोऽस्तु // 8 // // इत्येकादशं निलेपाष्टकम् // Parelalevacuasaccaacaca // अथ द्वादशं निःस्पृहाष्टकम् // स्वभावलाभात् किमपि, प्राप्तव्यं नावशिष्यते / इत्यात्मैश्वर्यसम्पन्नो, निःस्पृहो जायते मुनिः // 1 // // 6 //