SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे निर्लेपाष्टकम् सुन्दरी भवतु युष्माकं पार्था भवन्तु" इति प्रोच्य ते तत्र नीताः / द्विजेन सुन्दरी गृहीता / क्वापि नगरे स्थित्वा तां प्राह-'मम पत्नी भव' / तयोक्तम्-'नियमोऽस्ति' / कियन्ति दिनानि सोक्षालनं करोति / भैषज्ययोगेन साऽशुचिगुण्डिताङ्गी स्थिता / द्विजो विरागी जातः / तद्भावं विज्ञाय सा पाह-'मम पितुः पार्श्वे मां नय' / तेन तथा कृतम् / अन्यदा सर्पदष्टद्विजस्तया सज्जितः / गुरुपायें नीतः। तत्रेति धर्मदेशनामशृणोत्-"जीवो निर्लेपगुणान्वितोऽनेकगुणानाप्नोति।" किनामा निर्लेपः 1 चेतनस्य सकलपरभावसंयोगाभावेन स्वभावावस्थान निलेपः, यतःलिप्यते पुद्गलस्कन्धो, न लिप्ये पुद्गलैरहम् / चित्रव्योमाञ्जनेनेव, ध्यायन्निति न लिप्यते // 3 // व्याख्या-पुद्गलानां स्कन्धः पुद्गलैः लिप्यते किन्तु अहं न लिप्ये यथाऽञ्जनेन विचित्राकारमाकाशं न लिप्यते एवं | ध्यानं कुर्वाणः आत्मा न लिप्यते, कर्मणा न बध्यते इत्यर्थः // 3 // लिप्तताज्ञानसम्पात-प्रतिघाताय केवलम् / निर्लेपज्ञानमग्नस्य, क्रिया सर्वोपयुज्यते // 4 // व्याख्या-निर्लेपज्ञानमग्नस्य-अहं निलेपोऽस्मि इति ज्ञानप्रवाहारूढस्य योगिनः सर्वा क्रिया व्युत्थानदशायां व्यवहारात लिप्तताज्ञानस्यागमननिरोधाय उपयुक्ता भवति, तस्मादेव कारणात् ध्यानारूढस्य आवश्यकादिक्रिया आत्मध्यानधारास्थितये आलम्बनं कथितम् // 4 // लिप्यतेऽन्योन्याश्लेषेण संक्रमादिना पुद्गलस्कन्धः अन्यैः पुगलैलिप्यते उपचयी स्यात् / अहमिति सर्वेषां भावनावचनम्,अहं निर्मलश्चिद्रूपो न पुद्गलाश्लेषो / वस्तुवृत्त्या पुगलात्मनोस्तादात्म्यसम्बन्ध एव नास्ति, संयोगसंबन्धस्त्वौपाधिकः / यथा व्योम-आकाश DOODGEMEINDSATGE // 59 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy