SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ तृप्त्यष्टकम् ज्ञानसारे || पडसास्वादनादपि न भवति, अन्यसर्वतृप्तिभ्यः अधिका दर्शिता तस्मादत्र व्यतिरेकालङ्कारोऽस्ति // 3 // संमारे स्वप्नवन्मिथ्या, तृप्तिः स्यादाभिमानिकी / तथ्या तु भ्रान्तिशून्यस्य, साऽऽत्मवीर्यविपाककृत्॥४| व्याख्या - यथा स्वप्ने मोदकभक्षणात् दर्शनात्तृप्तिर्भवति तथाऽस्मिन् संसारेऽभिमानसिद्धातृप्तिमिथ्या भवति, सत्या | / तृप्तिस्तु मिथ्याज्ञानरहितसम्यग्दृष्टेर्भवति, सा तृप्तिः आत्मनो वीर्यपरिपाककारिका भवति, तृप्तेः लक्षणं वीर्यपृष्टिरस्ति // 4 // पुद्गलैः पुद्गलास्तृप्तिं, यान्त्यात्मा पुनरात्मना / परतृप्तिसमारोपो, ज्ञानिनस्तन्न युज्यते // 5 // व्याख्या-पुद्गलपदाथैः पुद्गलाः तृप्तिं प्राप्नुवन्ति किन्तु आत्मा आत्मगुणपरिणामात् तृप्तिमधिगच्छति, तस्मात्कारणात पुद्गलतृप्तिसमारोपः आत्मनि उपचारः अभ्रान्तस्य ज्ञानिनो न संघटते अन्यस्य धर्ममन्यस्मिन् च आरोपयेत् स कथं ज्ञानी अभिधीयते // 5 // मधुराज्यमहाशाका-ग्राह्येवाह्ये च गोरसात् / परब्रह्मणि तृप्तिा, जनास्तां जानतेऽपि न // 6 // व्याख्या-मधुराज्यस्य मनोहरराज्यस्य, महाशाकात महातृष्णावतः पुरुषात् अग्राह्य-प्राप्तुमशक्ये गोरसात-वाचोरसात् बाह्ये परब्रह्मणि या तृप्तिरस्ति तां लोका न जानन्ति तर्हि कथं प्राप्नुयुः / भोजनादौ या तृप्तिरस्ति सा मधुरात् आज्यात् स्वादिष्टधृतात् महान् चासौ शाकश्चेति महाशाकः तस्माद् ग्रहीतुं योग्याद् गोरसात् दधिदुग्धात् बाह्या नास्ति भोजने व्यञ्जनोपेते को रसो गोरसो जिमते शाकादिसहितेऽपि भोजने गोरसं विना को रसोऽस्ति, इत्यादिवचनाद् ज्ञेयं भवति परब्रह्म तु गोरसात-वाचः COECDONACICIE FITAS CHICTORCASSO acara
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy