SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ तृप्त्यष्टकम् ज्ञानसारे परमस्ति "यतो वाचो निवर्तन्ते अप्राप्य मनसा सह" इति वेदवाक्यात् / “अपयस्सपयं नथि" (आचा अ० 5 उ०६) वर्णादिरहितात्मनः स्वरूपं कथयितुं किमपि पदमलं न भवति, इत्यादिसिद्धान्तवचनाद्बोध्यम् / अत्रेमौ दावों कथितौ व्यतिरेकालङ्कारोऽस्ति / विषयोर्मिविषोद्गारः, स्यादतृप्तस्य पुद्गलैः / ज्ञानतृप्तस्य तु ध्यान--सुधोद्गारपरम्परा.॥७॥ व्याख्या - पुद्गलैरतृप्तस्य विषयतरङ्गरूपविषस्योद्गारः स्यात् ज्ञानैः तृप्तम्य तु ध्यानरूपामृतस्योद्गारपरम्परा भवति / अतिपुदगलभोजनं विषभोजनं भवति, ततः विषयविषस्याजीर्णत्वे कदुगारो भवेत् ज्ञानामृताशिनो महातृप्तस्यामृतोद्गारो भवति / इदमेव हि महातृप्तेः लक्षणमस्ति // 7 // अथ दशमे तृप्त्यष्टके बुद्धिसुन्दरीकथानकम् // 10 // नवमक्रियाष्टकस्य रतिसुन्दर्याः कथानके या तु प्रधानसुता कथिता सा बुद्धिसुन्दरी साररूपाऽस्ति सा राज्ञा दृष्टा, दत्या याचिता, साऽन्यं नरं नेच्छति / राज्ञा कूटरचना विधाय सकुटुम्बो मन्त्री धृतः / अमात्यं प्राह नृपः-"यदा मदाज्ञां करोषि तदा त्वां मुशामि"। स ऊचे-"यदेव अज्ञापयति तत्प्रमाणम् / " तथोक्ते बुद्धिसुन्दरी रक्षिता स्वान्तःपुरे, सा भृशमर्थिताऽपि नेच्छति, उपदेशं च ददाति यतः संसारे स्वप्नवन्मिथ्या, तृप्तिः स्यादाभिमानिकी / तथ्या तु भ्रान्तिशून्यस्य, सात्मवीर्यविपाककृत // 1 // ___ संसारे द्रव्यतश्चतुर्गतिरूपे भावतो मिथ्यात्वादिभावलक्षणे संसरणे आभिमानिकी "मया छलबलं कृत्वेदमनुभूतं मत्सदृशः // 56 // INI कोऽपि जगति नास्तीत्यहं कृती" इति मिथ्याभिमानोत्पन्ना या तृप्तिः सा स्वप्नवन्मिथ्यावितथा कल्पनारूपा एव गत्वरत्वात्परत्वात्स्व SENTS NESIKTASTE PEADSDEMSDETTENSETS
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy