SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे शमाष्टकम् // अथ नवमे क्रियाष्टके रतिसुन्दरीकथानकम् // साकेतपुरे जितशत्रुपुत्रो रतिसुन्दरी, तत्रैव श्रेष्ठिसुता ऋद्धिसुन्दरी, मन्त्रिसुता बुद्धिसुन्दरी, पुरोहिततनुजा गुणसुन्दरी; चतस्रोऽपि सुरूपाः सुश्राविका धर्मगोष्टीदेवगुरुस्थले धर्मक्रियां वितन्वत्यः परपुरुषनियम जगृहः / इतश्च नन्दपुरविमुना रतिसुन्दरी परिणीता, तस्या रूपलावण्यं सर्वत्र प्रसृतम् / सैकदा हस्तिनागपुरेशेन दूतमुखेनार्थिता / नन्दपुरेशः प्राह-"सामान्यजनः स्वकलत्रं नापयति, कथमहं तामर्पयामि ? याहि स्वस्थानम् / " इति प्रोक्ते स दूतो गत्वा स्वस्वामिनेऽकथयत् / द्वयोर्युद्धे हस्तिनागेशस्य जयोऽभूत् / रतिसुन्दरीं लात्वा स्वस्थानं गतः / मऽर्थिता पाह-"मम चतुर्मासकं यावच्छीलं वर्तते / " राज्ञाऽचिन्ति-"पश्चादपि ममायत्तास्ति / " सा सदा प्रतिबोधं ददाति / तस्य राझो रागो न याति / ततो नृप आह-"भद्रे ! वया प्रतिदिनं देशना कृता, तपसा कृशाशी जाता. त्यक्तनेपथ्यापि च, तथापि मम मनो बाद त्वयि रक्तम् / किं स्तूयतेऽामन्यन् ? तव लोचनसुभगत्वमात्रमपि वर्णयितुमशक्यम् / ' तया स्वशीललोपके स्वनेत्रे ज्ञात्वा नृपपुरस्तक्षणं लोचने निष्कास्य कृपाण्या आकृष्य नृपकरे स्थापिते / राज्ञः खेदः संजातः / सा देशनां चकार / तेन क्षामिता / सोऽत्यन्तं दुःखं दधाति मदर्थमनया लोचने कर्षिते / तस्य दुःखापनोदाय तयाऽऽराद्धा देवता तया दत्ते द्वे लोचने / तस्यापहतो दिनानि कियन्ति स्थित्वा वीक्षामावाद / प्रशान्तचित्तेन जिताक्षमावे नैवास्ता सा सफला क्रिया / प्राप्तेऽपि कप्टे स्वकियां सुशीला, मुगन्ति नो तां रतिसुन्दरीवत् // 1 // .. // इति नवमे क्रियाष्टके रतिसुन्दरीकथानकम् // 9 // CaCIGOODevar acaracaeldCaCODEDIO // 52 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy