________________ ज्ञानसारे क्रियाष्टकम् RewaraeseDESIGaudeware बाह्यभावं पुरस्कृत्य, ये क्रियां व्यवहारतः / वदने कवलक्षेप, विना ते तृप्तिकाक्षिणः // 4 // ____ व्याख्या-ये जना बाह्यभावमग्रे कृत्वा व्यवहारात क्रियां निषेधन्ति ते जनाः मुखे ग्रासप्रक्षेपं विना तृप्ति वाञ्छन्ति // 4 // गुणवद्वहुमानादे-नित्यस्मृत्या च सत्किया / जातं पातयेद् भाव-मजातं जनयेदपि // 5 // व्याख्या---गणिजनस्य बहुमानादित:-आदिशब्दात् पापस्यातिनिन्दनात् अतिचारस्य च पर्यालोचनात व्रते प्राप्तदोषादणां सद्गुरोः समक्ष प्रकटनात् देवगुरुषु भक्तितः उत्तरगुणे श्रद्धया गृहीतनियमानां नित्यस्मरणात् शुभक्रिया उत्पन्नं भावं न पातयेत्, अस्मिन्सम्बन्धे विंशतिकायां भीहरिभद्राचार्येण कथितं यत्-, तम्हा णिच्चसईए बहुमाणेणं च अहिगयगणम्मि / पडिबक्खदुर्गच्छाए, परिणइ आलोयणेणं च // 1 // तित्थंकरमत्तीए, सुसाहुजणपज्जुवासणाए य / उत्तरगुणसद्धाए, एत्थ सया होइ जइअव्वं // 2 // एवमसतोवि इमो जायइ, जाओ अ न पडइक्रयावि / ता एत्थं बुद्धिमया, अवमानो होइ कायन्वो // 3 // ... .(श्रावकधर्मविंशिका गा० 18) ___ तस्मात् व्रतस्य सर्वदा स्मरणं, गणिजनानां बहुमान, व्रतप्रतिपक्षिणो जुगुप्सा, परिणामस्य पर्यालोचना, तीर्थकरस्य भक्तिः, साधोः सेवा, उत्तरगुणस्य श्रद्धा चैतैरत्र सदा प्रयत्नो विधेयः एवंकुर्वाणस्यानुत्पन्नो भावः उत्पधेत उत्पन्नस्तु न कदापि पतेत् | तेनात्र धीधनैः प्रमादं परित्यज्य सावधानर्भवितव्यम् // 5 / / DESociaeosacsEWaale // 51 //