SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ शानसारे |शमाष्टकम् HealerseIOCHDEEPLICADEMIC येन मया ईदृश्यो नरकादिव्यथाः सोढास्तस्य कथं दीक्षा दुष्करा ? इत्यसौ मया प्राइव / प्रत्रयायां यः साम्यगुणसुखास्वादः स एव महाधारः / साम्यसुखमग्नो जीवो देशोनपूर्वकोटिकालं सुखेनादीनमनसा गमयति, मेषोन्मेषमात्रमपि प्रमादावसरं नाभ्येति, यदुक्तम् शमसूक्तसुधासिक्तं, येषां नक्तं दिनं मनः / कदापि ते न दह्यन्ते, रोगोरगविषोर्मिभिः // 1 // येषां महात्मनां मनः शमः कषायाभावस्तस्य सूक्तानि अध्यात्मोपनिषद्वाक्यानि तान्येव सुधा-अमृतं तेन सिक्तं चित्तं भवति अहोरात्रं, ते रागोऽभिष्वङ्गलक्षणः स एवोरग. सर्पस्तस्य विषस्योर्मयस्ताभिः ते समतासिक्ता न दहयन्ते / जगज्जीवा रागादिदष्टा विषयघूर्णिता भ्रमन्ति, इष्टसंयोगानिष्टवियोगचिन्तया विकल्पयति, बहुविधानप्रशोकादिकल्पनाकल्लोलान् संगृहणन्ति, अनेकान् जगदुच्छिष्टान् पुद्गलस्कन्धान याचन्ते, अतः शमगुणाविष्करणं श्रेयस्करं निरुपमानं च यतः स्वयम्भूरमणस्पधि-वर्धिष्णुममतारसः / मुनिर्येनोपमीयेत, कोऽपि नासौ चराचरे // 1 // स्वयम्भूरमणोऽर्धरज्जुप्रमाणः प्रान्तसागरस्तस्य स्पर्धाकारी वर्धमानः समतारसो यस्य स एवंविधो मुनि, त्रिकालाविषयी, तथाहि-अतीतकालभोगस्मृत्यभाव. वर्तमानेन्द्रियगोचरप्राप्तिविषयरमणाभावः, अनागतकालमनोज्ञविषयेच्छाभावः मुनिः येनोपमानेनोपमीयते चराचरे विश्वे असौ कोऽपि नास्ति, यत्सर्वमचेतनपुद्गलस्कन्धजं मूतं च तत्समतारसेन सहजात्यन्तिकनिरुपचरितसमभावस्वरूपेण सह कथमुपमीयते ?" इत्यादि विविधोपायेन पितरौ प्रतिबोध्यानुज्ञां लात्वा समस्तपरिग्रहं त्यक्त्वा प्रवजितः / यदुक्तम् अगिस्सिओ इह लोए, परलोर अणिस्सिओ / वासिचंदणकप्पो अ, असणे अणसणे तहा // 1 // नेहलोकार्थ परलोकार्थ वा तपोऽनुष्ठायोति वासीचन्दनव्यापारकपुरुषयोस्तुल्यः सः / तथाऽशने आहारे अनशने तदभावे तुल्यः / NI इत्थं बहुवर्षाणि यावत् श्रामण्यं परिपाल्य मासिकानशनेन सिद्धि प्रापेति / / NCAGEGENGILEGGENDENESC // 37 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy