SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सानसारे मोहत्यागाष्टकम् T EENGESBELGE // अथ षष्ठं शमाष्टकम् // विकल्पविषयोत्तीर्णः, स्वभावालम्बनः सदा / ज्ञानस्य परिपाको यः, स शमः परिकीर्तितः // 1 // व्याख्या-चित्तस्य विभ्रमरूपविकल्पविषयात निवृत्तं निरन्तरात्मशुद्धस्वरूपालम्बनस्य ज्ञानस्य यः विशुद्धपरिणामः स शमः प्रोच्यतेऽस्मादेव कारणाव-अध्यात्म-भावना-ध्यान-समता-वृत्तिक्षयाः पञ्च प्रकाराः सन्ति / एषामेव भेदः योगशास्त्रे समतानाम्ना कथितोऽस्ति // 1 // // अथ षष्ठे शमाष्टके मृगापुत्रकथानकम् // 6 // सुग्रीवपुरीशपुत्रो मृगापुत्रः प्रासादगवाक्षे स्थितो नगरस्वरूपमालोकयन् शमगुणागारमेकमनगारं पश्यन्निनिमेषदृष्टया विलोकयन् जातिस्मृति प्राप, पुराकृतं श्रामण्यं संस्मृत्यम्बापितरावुपागम्येदं वाक्यमब्रवीत "सुयाणि मे पंचमहन्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु / निविण्णकामोम्हि महण्णवाओ, अणुजाणह पबहस्सामि अम्मो // 1 // इत्यादिदेहभोगोपभोगादीनामनित्यत्वमुक्त्वा प्रव्रज्याज्ञां ययाचे, तदा पितृभ्यं श्रामण्यपालनमनेकयुक्त्या यावज्जीवं दुष्करं दर्शितं-"त्वमतिसुकुमारः श्रामण्यं पालयितुं न क्षमोऽसि, इन्द्रियमनसां दुर्जयत्वाद, लोहमययवचर्वणवदुष्करं चारित्रम्, दीप्तामग्निशिखां पातुमिव मन्दरगिरेस्तुलारोपणमिव वा तारुण्ये संयमोद्वहनं सुदुष्करं, पश्चाद्वार्धके चरणाचरणं न्याय्यम् / " मृगापुत्र ऊचे-हे पितरौ ! इह लोके निःपृहस्य न किश्चिदपि दुष्करम्, यच्चतुर्गतिषु अनेकवेदना मयाऽनुभूता वागगोचराः, यतः सब्बभवेसु असाया, वेअणा बेइआ मए / निमसंतरमितंपि, जं साया नत्थि वेयणा // 1 // acaradaacaacaara // 36 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy