SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सारे शानसारे अत्र विवेचनम् ज्ञानाष्टकम् गोचरविषयस्यैव प्रा XESTETBEFESZES SEVES DIE अत्र विवेचनम् - ज्ञानं त्रिविधम् (1) विषयप्रतिभासरूपम्, (2) आत्मपरिणतिमत्, (3) तत्त्वसंवेदनरूपं च / यत्र इन्द्रियगोचरविषयस्यैव प्रतिभानं स्यात किन्तु तत्र प्रवृत्या ताच्चिकातात्त्विकाभानं भवेत एतादृशं हेयोपादेयविवेकर्जितं ज्ञानं विषयप्रतिभासरूपं कथ्यते / यत्र ज्ञानात्प्रवृत्तेः परिणामस्य भानमस्त्येतादृशं हेयोपादेयतत्वविवेकवदपि तत्र प्रवृ. त्तिनिवृत्तिरहितं ज्ञानमात्मपरिणतिमदुच्यते / इदं ज्ञानं हि अतिदु धराग-द्वेष-मिथ्यात्वग्रन्थेः मेदात् सम्यग्दृष्टेः भवति / यत्र तत्वं स्पष्टं भासते / तथा हेयोपादेयविवेकयुक्तं तत्र प्रवृत्तिनिवृत्तिसहितं ज्ञानं तत्त्वसंवेदगरूपमुच्यते / एतादृशं ज्ञानं शुद्धचारित्रवतो भवति / यदि ग्रन्थिभेदाद् हेयोपादेयविवेकवज्ज्ञानं स्यात् तदा हेयोपादेयविवेकं ज्ञापयतः शास्त्ररूपसाधनस्य काऽऽवश्यकता // 6 // मिथ्यात्वशैलपक्षच्छिद्-ज्ञानदम्भोलिशोभितः / निर्भयः शक्रवद्योगी, नन्दत्यानन्दनन्दने // 7 // ब्याख्या-मिथ्यात्वरूपगिरेः पक्षभेदकः ज्ञानरूपवज्रेण शोभायमानः देवेन्द्र इव योगी आनन्दरूपे नन्दनवने क्रीडति, IN सहजसुखमनुभवति // 7 // पीयूषमसमुद्रोत्थं, रसायनमनौषधम् / अनन्यापेक्षमैश्वर्य, ज्ञानमाहुर्मनीषिणः // 8 // व्याख्या- समुद्रादनुत्पन्नममृतम् , औषधं विना रसायनम् , जराजन्ममरणनाशकम् , अन्यानपेक्षम् ऐश्वर्यम् प्रभुत्वम् ; IN अन्यदमृतं समुद्रादुत्पन्नं भवति, अन्यद्रसायनमौषधजनितं भवति, तथा अन्यत्प्रभुत्वं गजाश्वादिसापेक्षं भवति ब्रानं न तथा इति विपश्चितः कथयन्ति // 8 // // इति पञ्चमं ज्ञानाष्टकम् // Garmacarame // 35 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy