________________ ज्ञानसारे ज्ञानाष्टकम् MERGENDENGENGESHENGDaie व्याख्या-आत्मस्वभावप्राप्तेः संस्कारकारणीभूतं ज्ञानमिच्छामः अतोऽल्पादधिकाद्वा वीतरागस्य वचनाद् विचारणा| सत्त्वे वीतरागस्य स्मरणात् आत्मनि तन्मयतायाः कारणीभूतं ज्ञानमेष्टव्यम् / एतद्विना अन्यद् यदधिकमध्ययनं तद्बुद्धेरन्धत्वमस्ति महात्मा पतञ्जलिना ऋषिणा तथैवोक्तम् / अत्र पतञ्जलिः ऋषिः प्रथमयोगदृष्टया महात्मे त कथितोऽस्ति // 3 // है वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा / तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गतौ // 4 // व्याख्या-अनिर्धारितार्थवादान् पूर्वपक्षान् तथैवोत्तरपक्षांश्च कुर्वन्तः षण्मासावधि कण्ठशोषं कुर्युः तथापि गमने तैलR| कारवृषभ इव तत्त्वस्य पारं नैव प्राप्नुयुः // 4 // | स्वद्रव्यगुणपर्याय-चर्या वर्या परान्यथा / इति दत्तात्मसन्तुष्टि-मुष्टिज्ञानस्थितिर्मुनेः // 5 // व्याख्या स्वकीयशुद्धात्मद्रव्ये स्वकीयज्ञानदर्शन-चारित्रादिगुणे शुद्धव्यञ्जनपर्याये चर्यापरिणतिः श्रेष्ठा अस्ति / परकीयद्रव्य-गुण-पर्यायेषु ग्रहणोत्पत्तिरूपा परिणतिः श्रेष्ठा नास्ति / अनया रीत्या य आत्मानं तुतोष,इत्थं मुष्टिज्ञानस्य संक्षेपाद्रहस्यज्ञानस्य स्थितिसुनेर्भवति, आत्मैव दर्शनज्ञान-चारित्राणि अथवा यतेः // 5 // अस्ति चेद्ग्रन्थिभिज्ज्ञानं,किं चित्रेस्तन्त्रयंत्रणैः। प्रदीपाः क्वोपयुज्यन्ते, तमोघ्नी द्रष्टिरेव चेत् // 6 // व्याख्या-यदि ग्रन्थिभेदादुत्पन्न (अत्र कारणे कार्यस्योपचागेऽस्ति) विषयप्रतिमासांशरहितमात्मपरिणतिमज्ज्ञानमस्ति तर्हि विविधशास्त्रबन्धस्य किं प्रयोजनं, यतो हि इदमेवाभ्यासपरिपाकवशात् तत्त्वसंवेदनं स्यात्तदा भावचारित्रं परिणति तत्र शास्त्ररूपपरसाधनस्यापेक्षा नास्ति / अत्र दृष्टान्तमस्ति यत्-यदि दृष्टिरेवान्धकारनाशिका अस्ति तहिं दीपस्य क्वोपयोगः स्यात् ? // 34 //