SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे ज्ञानाष्टकम् अत्र सम्यरत्नत्रयोपादेयलक्षणं परमज्ञानं शुद्धं यतः पीयूषसमुद्रोत्थं, रसायनमनौषधम् / अनन्यापेक्षमैश्वर्य, ज्ञानमाहुर्मनीषिणः // 1 // समुद्रं विनोत्पन्नममृतमौषधरहितं रसायनं-जरामरणवारकं सेनाद्यपेक्षामुक्तमैश्वर्य शकचक्रित्वम्, एतादृशं पण्डिता ज्ञानमाहुः / अतो ज्ञानं सम्यगुपादेयम् / इत्यादिगणधरदेशनां निशम्य विरक्तधीर्गाङ्गिलनृपः स्वाङ्गजं राज्ये न्यस्य पितृभ्यां सहितः प्राज्यरुत्सवैव्रतमाददे / ततः सालमहासालगानिलादिभिरन्वितो गणी जिनाभ्यणे गन्तुं चम्पा प्रत्यचलत् / तदा सालमहासालौ इति दध्यतुः"धन्या इमेऽस्मद्भगिनी भगिनीपति-भागिनेया अचिरेण सर्वविरतिं प्राप्ताः / " ते त्रयोऽपीत्थं दध्युः___ "एताभ्यां हि वयं पूर्व राज्यश्रीभाजनीकृताः / इदानीं तु महानन्द-प्रापकं प्रापितं व्रतम् // 1 // इत्यादिलोकोत्तरध्यानमग्नाः क्षपकश्रेणिमाश्रिताः पञ्चमज्ञानमासदन् / अथ ते जिनाभ्यणे गता गणाधिपेन समं जिनं प्रदक्षिणीकृत्य केवलिपदि जग्मुः / ततस्तान् गौतमः प्रोचे-"भो अनभिज्ञा इव कथं यूयं यात ? समायात , त्रिभुवनप्रभु बन्दध्वम् / " अथ भीवीरेण गौतमो जिनान्माऽऽशातयेत्युक्तस्तक्षणं तान् क्षमयित्वेति निजे हृदि दध्यो ____ “दुभंगं हरिणाक्षीव, भजतेऽद्यापि मां नहि / केवलज्ञानलक्ष्मीस्तत्, कि सेत्स्यामि न वाऽथवा" // 1 // इति चिन्तयन्निति सुरालापं शुश्राव "जिनेनाद्योदितं यो हि, जिनानमति भूचरः / स्वलब्ध्याष्टापदं गत्वा, स हि तद्भवसिद्धिकः" // 1 इति देवगिरं श्रुत्वा जिनाज्ञां लात्वाऽष्टापदं प्रति प्रतस्थे / इतश्च कोडिन्न-डिन्न-सेवलास्तापसास्त्रयः प्रत्येकं पञ्चशतीतापसान्विता 'अष्टापदारोहान्मुक्तिः स्यात्' इति विभोर्वचो जनाननाच्छ्रुत्वा पूर्व तं प्रति प्रस्थिताः सन्ति / तेषूपवासतपोभृत्प्रथमः सपरिच्छदस्तस्याद्ररादिममेखला कन्दादिभोजनो भेजे / षष्ठकारी द्वितीयस्तु पक्वपत्रादिभोजनः सतन्त्रस्तस्य भूभृतो द्वितीयां मेखला प्राप / aescrapsairavaca // 31 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy