SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे Vाज्ञानाष्टकम् PEMBENDESSEISEV BEUKETRENIE वेऽन्यूनमेकादशाङ्गीसूत्रं पठेतुः / अन्यदा जिनाज्ञां लात्वा श्रीमदाद्यगणभृता सह स्वजनप्रतिबोधाथ पृष्ठचम्पायामाययतुः / श्रुत्वा गानिलभूपोऽपि वन्दितुमगाव / तत्र श्रीचतुर्सानी गणभृद्धर्मदेशनां प्रारेभे निर्वाणपदमप्येकं. भाव्यते यन्मुहर्मुहुः / तदेव ज्ञानमुत्कृष्ट, निर्बन्धो नास्ति भूयसा // 1 // निर्वाणपदं निष्कर्मताहेतुपदमेकमपि स्याद्वादसापेक्षं मुहर्मुहः आत्मतन्मयतया क्रियते स्वरूपेकत्वं तदेवोत्कृष्टं ज्ञानं येनात्माऽनादितोऽनासादितात्मसुखमनुभवति, शेषेण वाग्विस्तारेण भूयसाऽपि संवेदनज्ञानेन न निर्बन्धः निश्चयः स्वल्पमप्यमृतकल्पमनादिकर्मरोगापगममिति / वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा / तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गतौ // 2 // वादान्-पूर्वपक्षरूपान् , प्रतिवादान् उत्तरपक्षरूपान्परपराजयस्वजयेच्छया बदन्तो-विवादं कुर्वन्तः तत्त्वान्त-तत्त्वस्य-वस्तुधर्मरूपस्यान्तं पारं नैव गच्छन्ति, ( तथा ) अनिर्धारितपदार्थस्वरूपान् वदन्तः तत्तत्त्वं स्वीयात्यन्तिकाकृत्रिमात्मज्ञानानुभवरूपं नैव लभन्ते / किंवत् ? गतौ-गमने तिलपीलकवृषभवत् किश्चिस्थानान्तरं न लभन्ते, एवं तत्त्वज्ञानानभिलाषी अनेकशाखश्रमं कुर्वन् न तत्त्वानुभव स्पृशति / अतएव सप्त नयाः स्वेच्छया ज्ञानस्वरूपं वदन्ति-नामज्ञानं शब्दालापरूपं, स्थापनाज्ञान-सिद्धचक्रादौ स्थापितं द्रव्यज्ञानमनुपयोगेन भणनं, तत्त्वार्थे द्रव्यज्ञानं पुस्तकन्यस्तम् ,' अथवाऽनुप्रेक्षाहीनः स्वाध्यायः, भावज्ञानमुपयोगपरिणप्तिः / तत्र नैगमेन ज्ञानभाषादिस्कन्धो ज्ञानम् // 1 // संग्रहेण सर्वजीवा ज्ञानम् , अभेदोपचारात् / 2 / व्यवहारेण-पुस्तकादिज्ञानम् / 3 / ऋजुसूत्रेण-तत्परिणामसंकल्परूपं ज्ञानम् / 4 / ____ अथवा-ज्ञानहेतुवीर्य नैगमेन, संग्रहेण आत्मा, व्यवहारेण-क्षयोपशमीभूतज्ञानव्यवहारप्रवृत्तिः, ऋजुसूत्रेण-वर्तमानबोधः यथार्थायथार्थरूपमुभयज्ञानम् / शब्दनयेन-सम्यग्दर्शनपूर्वकयथार्थबोधलक्षणं कारणकार्यसापेक्षं स्वपरप्रकाशकं स्याद्वादोपेतं ज्ञानम् // 5 // समभिरूढ़नयेन-सकलज्ञानवचनपर्यायशक्तिप्रवृत्तिरूपम् / 6 / एवम्भूतेन-वस्तुतः केवलज्ञानम् / 7 / anparaanracanaraaaa
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy