________________ मानसारे मोहत्यागा CECTIONSENABDICHTETETAS यस्य जन्तोः तथाविधे जन्तौ कथयितुमाश्चर्यवान स्यात. सहजसखानुभविता योग्यपि आरोपितसुखे प्रीतिं मन्वानं नरं सहजसुखस्य स्वरूपं प्रत्याययितुं वाचः असामर्थ्यादाश्चर्यवान् भवति // 7 // यश्चिद्दर्पणविन्यस्त-समस्ताचारचारुधीः / क्व नाम स परद्रव्येऽ-नुपयोगिनि मुह्यति // 8 // ___ व्याख्या-यो योगी ज्ञानरूपे दर्पणे स्थापितसमस्तज्ञानादिपञ्चाचारेण सुन्दर ज्ञानवान् अस्ति स योगी अनुपयोगिनिअनुपकारिणि परद्रव्ये-अन्यदीयवस्तुनि न विमुह्यति // 8 // // इति चतुर्थे मोहत्यागाष्टकम् // 5 // अथ पञ्चमं ज्ञानाष्टकम् // मज्जत्यज्ञः किलाज्ञाने, विष्ठायामिव शूकरः / ज्ञानी निमज्जति ज्ञाने, मराल इव मानसे // 1 // ____ व्याख्या-यथा शूकरो विष्टायां लिप्तो भवति तथा अज्ञानी प्राणी किलाज्ञाने लीनो भवति, यथा हंसः मानसरोवरे | लीनो भवति तथा ज्ञानी नरः ज्ञाने रक्तो भवति // 1 // अथ पञ्चमज्ञानाष्टके सालमहासालकथानकम् // 5 // पृष्ठचम्पाधिपपुत्रौ शालमहाशाली युवराजौ बभूवतुः / अन्यदा तत्र श्रीवीरः समवासार्षीत् / महा तो सावं वन्दितुं जग्मतुः / तत्र श्रीसाव नस्वा धर्म श्रुत्वा विरक्तात्मानौ गृहं गतौ स्वजामेयं गाडिलं राज्ये न्यस्य जिनान्तिके प्रावाजिष्टाम् / स्थविरपा DONECOETSEE