SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे पूर्णाष्टकम् Macaca DDIGIOUGCIGICE उदीरयिष्यसि स्वान्ता-दस्थैर्य पवनं यदि / समाधेर्धर्ममेघस्य, घटां विघटयिष्यसि // 7 // ___ व्याख्या-- यदि मानसादस्थिरतारूपं पवनमुत्पादयिष्यसि तदा धर्ममेघसमाधेः श्रेणिं विघटयिष्यसि / पातञ्जलयोगशास्त्रे धर्ममेघसमाधिः असंप्रज्ञातसमाधिः कथिताऽस्ति तस्याः घटां विघटयिष्यसि एतेनागच्छत् केवलज्ञानं विघटयिध्यसि // 7 // चारित्रं स्थिरतारूप-मतः सिद्धेष्वपीष्यते / यतन्तां यतयोऽवश्यमस्या एव प्रसिद्धये // 8 // व्याख्या-योगस्य स्थिरतारूपं चारित्रमस्ति अस्मात्कारणात्सिद्देष्वपि तदिभ्यते अतः यतयोऽपि अस्याः स्थिरतायाः सम्पूर्णसिद्धयेऽवश्यं प्रयतेरन् सिद्धेषु सर्वात्म प्रदेशानां स्थिरतारूपं चारित्रं सिद्धान्तसिद्धमस्ति किन्तु सिद्धेषु यच्चारित्रं निषेधितमस्ति तस्क्रियारूपं चारित्रं बोध्यम् / सिद्धेषु यो भावो भवति स जातिस्वभावः कथ्यते, एतादृशी स्थिरता अस्ति, तस्य सिद्धिः सर्वथा विधेया // 8 // // इति तृतीयं स्थिरताष्टकम् // aaaaaaaaaaaaaaa // अथ चतुर्थ मोहत्यागाष्टकम् // 'अहं ममेति'मन्त्रोऽयं,मोहस्य जगदान्ध्यकृत् / अयमेव हि नपूर्वः, प्रतिमन्त्रोऽपि मोहजित्॥१॥ व्याख्या-अहं इदं मम इति मोहराजस्य महामन्त्रोऽस्ति स संसारमन्धयति नकारपूर्वक एवायं विरोधी मन्त्रोऽपि अस्ति // 22 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy