________________ शानसारे पूर्णाष्टकम् . Dewasieroelacraceae दधानः मग्न इत्यभिधीयते // 1 // यस्य ज्ञानसुधासिन्धौ, परब्रह्मणि मग्नता / विषयान्तरसंचारस्तस्य हालाहलोपमः // 2 // . व्याख्या--यस्य-जन्तोः ज्ञानामृतसमुद्र प्रपञ्चरहिते शुद्धात्मज्योतिः स्वरूपे परब्रह्मणि परमात्मरूपे मग्नता-लीनता | अस्ति तस्य जन्तोः ज्ञान विहायान्यस्मिन् प्रवृत्तिः विषतुल्याऽस्ति, यथा मालतीपुष्पे समासक्तो भ्रमरः कदलीस्तम्भे कदापि नोपविशति तथैवान्तरणसूखे रक्तो जीवः बाह्यप्रवृत्तिं नाचरेत् // 2 // - स्वभावसुखमग्नस्य, जगत्तत्वावलोकिनः / कत्तु त्वं नान्यभावानां, साक्षित्वमवशिष्यते // 3 // ___व्याख्या-सहजानन्दे मग्नः जगतः तत्त्वस्य स्याद्वाददृष्टया शुद्धस्वरूपं परीक्ष्यावलोकिन आत्मनः अन्यभावानां स्वस्माद्विमान्यपदार्थानां कर्तत्वं नास्ति, किन्तु साक्षित्वमवशिष्यते, मृत्तिकाप्रभृतयः पदार्थाः घटादिरूपेण परिणमन्ति, तेषु कुम्भकारादयः साक्षिण एव सन्ति, तथापि ते कथमभिमन्यन्ते यद् वयं घटादीनां कर्तारः स्मः। तथैव भाषावगणाद्रव्यं वर्णरूपेण, वर्णः पदरूपेण, पदं वाक्यरूपेण, वाक्यं महावाक्यरूपेण, महावाक्यं ग्रन्थरूपेण परिणमति; तत्र ग्रन्थकारः साक्षी एवास्ति, तथापि कथमभिमन्यते यदहं ग्रन्थकर्ताऽस्मि, सर्वमेव द्रव्यं निजनिजपरिणामस्य कर्त अस्ति, किन्तु परिणामस्य कश्चित्कर्ता नास्ति, इयं भावनाऽन्यभावानां कर्तृत्व नास्ति किन्तु साक्षित्वमस्ति / परब्रह्मणि मग्नस्य,श्लथा पौगलिकी कथा / क्वामी चामीकरोन्मादाः, स्फारा दारादरः क्व च // 4 ODCASADENTISTATOME // 9 //