SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ मानसारे पूर्णाष्टकम् DESSUTOCLAESENTASI - अपूर्णः पूर्णतामेति, पूर्यमाणस्तु हीयते / पूर्णानन्दस्वभावोऽयं, जादद्भुतदायकः // 6 // व्याख्या--वास्तविकत्यागभावनया धनधान्यादिपुद्गलैरपूर्णश्रात्मा आध्यात्मिकगुणैः पूर्णतामधिगच्छति तथैव धनधान्यादिपुद्गलैः पूर्णतामधिगच्छन् आत्मा ज्ञानादिगुणानामपचयं प्राप्नोति, अर्थात् पुद्गलानामपरिग्रहात् ज्ञानादीनां पूर्णता जायते, | पुद्गलानां चोपचयात् ज्ञानादीनां हानिः प्रसिद्धैवास्ति / अयं पूर्णानन्दस्य शुद्धस्यात्मनः स्वभाः जगतमाश्चर्यकारकोऽस्ति लौकिकद्रव्यागारादयोऽपूरिताः स्युः तथापि अयमात्मा पूरितो न भवति / यदि ते परितः स्युस्तदाप्ययमात्मा हानि नाप्नोति यतश्चात्मनस्तु खभावः तेभ्यः विपरीतोऽस्ति तस्मादाश्चर्य विदधाति // 6 // , परस्वत्वकृतोन्माथा, भूनाथा न्यूनतेक्षिणः / स्वस्वत्वसुखपूर्णस्य, न्यूनता न हरेरपि // 7 // ___व्याख्या-परद्रव्येषु स्वात्मबुद्धथा व्याकुलतां लभमानाः राजानोऽपि स्वभिन्नापेक्षया खस्मिन्यूनतादर्शनस्वभाववान् भवति M] अर्थात् अन्यस्यापेक्षया आत्मनि अपूर्णतां पश्यति / परन्तु आत्मद्रव्ये आत्मत्वस्य सुखनिरपेक्षाविरतानन्देन पूर्ण स्थज्ञानिनः इन्द्रापेक्षयाऽपि न्यूनता नास्ति यतोहि स्वभावसुखं सर्वेषां समानं भवति तत्र कस्मादपि कस्यचित् अधिकता न्यूनता वा नास्ति // 7 // कृष्ण पक्षे परिक्षीणे, शुक्ले च समुदञ्चति / द्योतन्ते सकलाध्यक्षाः, पूर्णानन्दविधोः कलाः॥८॥ व्याख्या-क्षयं गते कृष्णपक्षे, वृद्धि गते च शुक्लपक्षे सर्वेषां समक्षं पूर्णानन्दचन्द्रस्य कलाः सुशोभन्ते / अत्रायमाशयः--चन्द्रपक्षे-कृष्णपक्ष इत्यस्यार्थः अन्धकारस्य पञ्चदश दिनानि, शुक्लपक्ष इत्यस्य च प्रकाशस्य पञ्चदश दिनानि कला BICOCACOSMECTACTACTACTS |7||
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy