________________ ज्ञानसारे पूर्णाष्टकम् ADIDESCOBRICODE समुद्र इव निश्चलोऽस्ति, यथा तरलताङ्गेन समुद्रस्य कल्पिता पूर्णता भवति तथाऽहं धनवानस्मि, अहं रूपवानस्मि, तथा पुत्रवान् स्त्रीमानस्मि' इत्यादि संकल्पविकल्पाभ्याम् अवस्तुतः उत्पन्ना मिथ्यारूपा कल्पितपूर्णता भवति, परन्तु आनन्देन परिपूर्णे भगवान् शुद्धस्वभावः आत्मा स्थिरसमुद्रवत् प्रशान्तो भवति / आत्मरूपसमुद्रस्य ज्ञानादिरत्नैः सदा पूर्णता अस्ति एवं विचारणीयम्. बाह्यदृष्टितो विकल्परूपतरङ्गेण पूर्णो मन्यते // 3 // जागतिज्ञानदृष्टिश्चेत्, तृष्णा कृष्णाहिजाङ्गली / पूर्णानन्दस्य तत्किं स्याद् दैन्यवृश्चिकवेदना // 4 // d व्याख्या - यदि तृष्णारूपस्य कृष्णार्पस्य विषापहरणे जाङ्गुलीविद्यासदृशपूर्णताज्ञानदृष्टिः जागर्यात् तदा पूर्णानन्दमय| स्यात्मनः दीनतारूपस्य वृश्चिकवेदना कथं भवेत् ? पूर्णताज्ञानस्य दृष्टिः तृष्णां समूलं हन्ति, अपूर्णस्य तु तृष्णा भूयोऽभिवर्धते / | येन सर्पस्य विषं दूरीक्रियते तेन वृश्चिकस्य वेदना कुतो न दूरीक्रियते, इत्पभिप्रायः। पर्यन्ते येन कृपणा-स्तदपेक्षेव पूर्णता / पूर्णानन्दसधास्निग्धा. दृष्टिरेषा मनीषिणाम // 5 // .. व्याख्या-येन धनधान्यादिपरिग्रहेण कृपणाः हीनसत्त्वा लोभिनो जन्तवः पूर्यन्ते तस्यैव धनधान्यादिपरिग्रहम्योपेक्षैव पूर्णता अस्ति, अत्र धनधान्यादिपरिग्रहस्योपादानं सविकल्पमस्ति उपेक्षा तु निर्विकल्पा अस्ति, ततोऽत्र उपेक्षा गृहीताऽस्ति, पूर्णानन्दामृतेनार्दीभृता दृष्टिः पण्डितानां भवति / यत्रात्मद्रव्यस्य पवित्रज्ञानादिपर्यायस्य पूर्णता सर्वदाऽवस्थिता अस्ति तत्र पुद्गल| संकल्पिता अपूर्णता नैवाभिज्ञायते, किन्तु उत्कृष्टोपेक्षया देदीप्यमानस्वरूपा पूर्णतैव प्रकाशते // 5 // awardeesisease