________________ ज्ञानसारे उपसंहार DTCGICOSOCOTTAG व्याख्या-बौद्धादयोऽपि ज्ञानेन पवित्रितां क्रियां सुवणघटसदृशी कथयन्ति तत्परवचनमपि घटते, यतः कदा च पतितः || सुवर्णघटो भग्नः स्यात किन्तु सुवर्णतां न जहाति "( बन्धेण न बोलेइ कयावि )" बन्धनेन अन्तःकोटाकोटिं सागरोपमं नातिA] क्रामति अर्थात्ततोऽधिको स्थितिं न बध्नाति ज्ञानयुक्तक्रियातो बन्धो ध्वस्तः ततः स पुनर्न भवेत् // 10 // || क्रियाशून्यं च यज्ज्ञानं, ज्ञानशून्या च यक्रिया। अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव // 11 // व्याख्या-क्रियारहितज्ञानस्य ज्ञानरहितक्रियायाश्चान्तरं सूर्यखद्योतयोरिव बोध्यम् / क्रियाशून्यं ज्ञानं सूर्यवन्महाप्रकाश | ज्ञानशून्या क्रिया खद्योत इवात्म्पप्रकाशा अस्ति // 11 // चारित्रं विरतिः पूर्णा, ज्ञानस्योत्कर्ष एव हि / ज्ञानाद्वैतनये दृष्टि-भ्रूया तद्योगसिद्धये // 12 // ___व्याख्या-पूर्णविरतिरूपं चारित्रं ज्ञानातिशय एवास्ति, ततो योगसिद्धयर्थ केवलं ज्ञाननये दृष्टिदेया // 12 // सिद्धि सिद्धपुरे पुरन्दरपुरस्पर्धावहे लब्धवान, चिद्दीपोऽयमुदारसारमहसा दीपोत्सवे पर्वणि / एतद्भावनभावपावनमनश्चञ्चच्चमत्कारिणां, तैस्तैर्दीपशतैः सुनिश्चयमतैर्नित्योऽस्तु दीपोत्सवः॥१३ . व्याख्या- इन्द्रनगरस्य स्पर्धाकारके सिद्धपुरनगरेऽतिमनोहरे ज्योतिषा दीप्ततद्ग्रन्थरूपो ज्ञानस्य दीपः दीपोत्सवपर्वणि सम्पूर्णतामगात्, एतद्ग्रन्थभावनायाः-चर्वणरहस्यात् पूतमनसि सम्पद्यमानाडादवतो जन्तोः निश्चयमतरूपैर्दीपशतैः सर्वदा भाव CONCORDANDAG // 165 //