SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ उपसंहार सानसारे Daaruary निर्विकार निरावाधं, ज्ञानसारमुपेयुषाम् / विनिवृत्तपर।शानां, मोक्षोऽत्रैव महात्मनाम् // 6 // व्याख्या-विकाररहितं बाधरहितं च ज्ञानसारं प्राप्तवतां येषां परस्य आशा निवृत्ता एनादृशानां महात्मनामस्मिन्नेव भवे बन्धनिवृत्तिरूपा मुक्तिरस्ति // 6 // चित्तमार्दीकृतं ज्ञान-सारसारस्वतोर्मिभिः / नाप्नोति तीव्रमोहाग्नि-प्लोषशोषकदर्थनाम् // 7 // व्याख्या-ज्ञानस्य साररूपैः सरस्वत्याः कल्लोलैः कोमलीकृतं चित्तं तीव्रमोहाग्नेः दाहशोषस्य वेदनां न लभते // 7 // अचिन्त्या काऽपि साधूनां, ज्ञानसारगरिष्ठता। गतिर्ययोर्ध्वमेव स्या-दधः पातः कदापि न // 8 // व्याख्या-साधूनां ज्ञानसारस्य गौरवमचिन्त्यमस्ति यस्माद्गौरवात् ऊर्ध्वगतिरेव स्यात् न तु कदापि अधोगतिः स्यात् | अकारणनियमादन्यगुरुतयोर्ध्वगतिर्न स्यात् किन्त्वधोगतिरेव स्यादतो ज्ञानगुरुताऽचिन्त्या कथिता // 8 // क्लेशक्षयो हि मण्डूक-चूर्णतुल्यः क्रियाकृतः / दग्धतच्चूर्णसदृशो, ज्ञानसारकृतः पुनः // 9 // || ___व्याख्या-क्रियायाः कृतः क्लेशनाशः मण्डूकचूर्णसमानोऽस्ति / यथा मण्डूकस्य चूर्णः मेघवृष्टया पुनः मण्डूकानुत्पादयति तथा क्रियाकृतः क्लेशनाशः कारणसभिधानात्पुनरुत्पद्यते, परन्तु ज्ञानसारेण शुद्धक्षयोपशमेन कृतः क्लेशक्षयः दग्धमण्डूकचूर्णवदस्ति। यथा दग्धमण्डूकचूर्णः विपुलवृष्टयाऽपि पुनर्मण्ड्कानोत्पादयति तथा ज्ञानदग्धं कर्म पुनर्न प्रादुःण्यात्, यतो भोगं नागच्छेत् / / 9 // ज्ञानपूतां परेऽप्याहुः, क्रियां हेमघटोपमाम् / युक्तं तदपि तद्भाव, न यद्भग्नापि सोज्झति // 10 OSTEOCASNICDETBODENCA // 164 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy