SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मानसारे। उपसंहार KICSISESEDIASSAC सर्वप्रकारभयरहितः आत्मश्लाघायाः अकर्ता अपकीर्तिमयाभावभावनया स आत्मश्लाघां न कुर्वीत तत एव तत्वदृष्टि:-परमार्थदृष्टिमान सर्वसमृद्धिमान् घटे हृदये प्रकटा सर्वा ऋद्धिः यस्य सः, सर्वसमृद्धः स्थिरताय कर्मविपाकस्य विचारकः ततो व्यवहारदशायां संसारसमुद्रात् उद्विग्नः-भयभीतः स्यात्ततः सिद्धनिर्वेदगुणेन लोकसंज्ञातो मुक्तः स्यात् तत एव लोकोत्तरमार्गप्राप्तः शास्त्रदृक्-शास्त्रे दृष्टिमान् तत एव निष्परिग्रह-परिग्रहशून्यः स्यात् , ततः सिद्धनिष्परिग्रहगुणेन शुद्धानुभववान् अत एव भावयोगसम्पन्नः ततः नियागप्रतिपत्तिमान मोक्षलब्धा भावपूजा भूमिः ध्यानभूमिः तथा शुद्धतपसो भूमिः सर्वविशुद्धथा च सर्वनयाश्रितःस्यात् // 1 // 2 // 3 // 4 // स्पष्टं निष्टङ्कितं तत्त्व-मष्टकैः प्रतिपतिमान / मुनिमहोदयज्ञान-सारं समधिगच्छति // 5 // व्याख्या-द्वाविंशदष्टकैः स्फुटनिर्धारित तत्त्वं प्राप्तो मुनिः येन महानुदयो भवति एतादृशं शुद्धचारित्रं मुक्तिरूपं ज्ञानसारं | च प्राप्नोति, कथितं यत् "सामाइअमाइअं, सुअनाणं जाव बिंदुसाराओ / तस्स वि सारो चरणं, सारो चरणस्स निव्वाणं " // 1 // सामायिकादारम्य चतुर्दशलोकबिन्दुसारपूर्वपर्यन्तं श्रुतज्ञानमस्ति, तस्य सारः चारित्रमस्ति, चारित्रस्य च सारो निर्वाणमस्ति // 5 // साम्प्रतं सद्यः फलजातीयमुक्तेः स्वरूपं निर्दिशति DEODACAC // 163 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy