________________ मानसारे उपसंहार उपसंहार | पूर्णोमग्नःस्थिरोऽमोहो, ज्ञानी शान्तो जितेन्द्रियः / त्यागी क्रियापरस्तृप्तो, निलैंपो निःस्पृहो मुनिः॥१॥ | विद्या विवेकसम्पन्नो, मध्यस्थो भयवर्जितः / अनात्मशंसकस्तत्त्व-दृष्टिः सर्वसमृद्धिमान् // 2 // & ध्याता कर्मविपाकाना-मुद्विग्नो भववारिधेः / लोकसंज्ञाविनिर्मुक्तः, शास्त्रदृग्निष्परिग्रहः // 3 // शुद्धानुभववान योगी, नियागप्रतिपत्तिमान् / भावार्चाध्यान तपसां, भूमिः सर्वनयाश्रयः // 4 // BEDDENCES DODANONICALTOPENG व्याख्या- यतः पूर्णः अतो मग्नः ज्ञाने मग्नः न तु उपरि स्थितः तत एव स्थिर:-योगस्य स्थिरतावान्, तत एवामोहा-मोहरहितः अत एव ज्ञानी-तस्त्रज्ञः, तत एव शान्तः-उपशमवान्, तत एव जितेन्द्रियः, तत एव त्यागी कथितं यत् बान्धवधनेन्द्रियत्यागात् , त्यक्तभयविग्रहः साधु / त्यक्तात्मा निर्ग्रन्थः, त्यक्ताहकारममकारः // 11 // बान्धवस्य धनस्येन्द्रियविषयस्य च त्यागात् येन भयक्लेशौ त्यक्ती एतादृक् त्यागी आत्मवान् येनाहकारममत्वे त्यक्ते एतादृक् निर्ग्रन्थः साधुः भवति / अत एव क्रियायां तत्परः शास्त्रानुसारेण क्रियातः उत्तीर्णः सन् असंगक्रियानिष्ठः तत एव तप्तः आत्मसन्तुष्टः तत एव निलेपः लेपशून्यः तत एव निःस्पृहः स्पृहारहितः तत एव मुनि:-भावमौनवान् विद्यासम्पन्नः तत एव विवेकसम्पन्नः मध्यस्थः // 162 //