________________ ज्ञानसारे उपसंहार , DETAI SITORS दीपोत्सवो भवतु // 13 // || केषाञ्चिद्विषयज्वरातुरमहो चित्तं परेषां विषा-वेगोदर्ककुतर्कमूछितमथान्येषां कुवैगग्यतः / / | लग्नालर्कमबोधकूपपतितं चास्ते परेषामपि, स्तोकानां तु विकारभाररहितं तज्ज्ञानसाराश्रितम्॥१४| _ व्याख्या-अहो केषांचिन्मनः विषयतापात्प्रतप्तमस्ति अन्येषां च मनः विषस्यावेगसमानं सद्यःफलवत्कृतर्केण च मूछितम्, का पुनरन्येषां मनः कुवैराग्येण दष्टं, परेषां मनः अज्ञानकूपे पतितम्, अन्यानां मनः विकारभाररहितं ज्ञानसारेण युक्तमस्ति // 14 // | | जातोद्रेकविवेकतोरणततौ धावल्यमातन्वति, हृद्गेहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः। पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्गयाऽभवन्नैतद्ग्रन्थमिषात्करग्रहमहश्चित्रं चारित्रश्रियः॥१५ व्याख्या-यत्राधिकतया विवेकरूपतोरणस्य माला निवद्धाऽस्ति अतिप्रकाशं विस्तारयति हृदयरूपे गेहे समयमनुसृत्य | विस्तृतगीतस्य ध्वनिः प्रसरति ततः पूर्णानन्दरूपशुद्धात्मना सह सहजभाग्यरचनया एतद्ग्रन्थरचनाव्यपदेशात् चारित्ररूपलक्ष्म्याः चित्रं विवाहोत्सवः किं नाभूव // 15 // भावस्तोमपवित्रगोमयरसैः लिप्तैव भूःसर्वतः, संसिक्ता समतोदकैरथ पथि न्यस्ता विवेकस्रजः। अध्यात्मामृतपूर्णकामकलशचक्रेऽत्र शास्त्रेपुरः, पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मङ्गलम्॥१६ DACIACICADOBLOLAAN orea // 166 //