________________ Keva ज्ञानसारे सर्वनयाश्रयणाष्टकम् a laimachar पृथग्नया मिथः पक्ष-प्रतिपक्षकदर्थिता / समवृत्तिसुखास्वादी, ज्ञानी सर्वनयाश्रितः // 2 // व्याख्या-विभिन्नाः सर्वनयाः परस्परं वादप्रतिवादाभ्यां विडम्बनां प्राप्ताः सन्ति किन्तु माध्यस्थ्यसुखस्यानुभविता ज्ञानी सर्वनयाश्रितो भवति / कथितं यत् - अन्योऽन्यपक्षप्रतिपक्षभावा-द्यथा परे मत्सरिणः प्रवादाः / नयानशेषानविशेषमिच्छ-न पक्षपाती समयस्तथा ते // 1 // ... ( अन्य० द्वा० श्लो०) अर्थ-परस्परं पक्षप्रतिपक्षभावात् अन्ये प्रवादाः द्वेषभृताः सन्ति परन्तु सर्वनयानां समानताम् इच्छन् तव सिद्धान्तः | पक्षपाती नास्ति // 2 // नाप्रमाणे प्रमाण वा, सर्वमप्यविशेषितम् / विशेषितं प्रमाणं स्या-दिति सर्वनयज्ञता // 3 // व्याख्या-सर्वे यदि वचनविशेषरहिताः भवेयुस्तदा ते एकान्ततया नाप्रमाणं नापि प्रमाणं येनान्यसिद्धान्तस्थितसर| चनमपि वस्तुपरिशोधनात्प्रमाणमस्ति / कथितं यत्तत्रापि न च द्वेषः, कार्यो विषयस्तु यत्नतो मृग्यः / तस्यापि न सद्वचनं, सर्व यत्प्रवचनादन्यत् // (षोडशक 16 गा० 13) अन्यशास्त्रमपि द्वेष्यं नास्ति किन्तु तस्य विषयः प्रयत्नता विचार्यः, यत्प्रवचनाद्भिनमस्ति तस्यापि सर्व सद्वचनं CoacacaIDIEOGC // 159 //