________________ तपोऽष्टकम् XICODIPENDIDINDO किमनाकुला न भवन्ति // 4 // इत्थं च दुःखरूपत्वात्, तपो व्यर्थमितीच्छताम् / बौद्धानां निहता बुद्धि-बौद्धानन्दपरिक्षयात् // 5 व्याख्या-एवं पशूनां दुःखमेव तपो दुःखभोगरूपत्वात् निष्फलमस्ति इति इच्छतां बौद्धानां बुद्धिः कुण्ठिताऽस्ति / | यतस्तपसि बुद्धिजनितान्तरङ्गानन्दधारा अखण्डिता तिष्ठति, अतस्तपस्यापि आत्मिकानन्दधाग खण्डिता न भवति, तस्मात्तदुःख रूपं नास्ति / 5 // 3 यत्र ब्रह्म जिनार्चा च, कषायाणां तथा हतिः। सानुबन्धा जिनाज्ञा च, तत्तपः शुद्धमिष्यते // 6 // व्याख्या–यस्मिन् तपसि ब्रह्मचर्य वर्धेत यस्मिंश्च भगवतो जिनस्य पूजा स्यात् कषायाणां च नाशो भवेत् अनुबन्धसहिता वीतरागस्याज्ञा प्रवर्तेत तत् तपः शुद्धं प्रोच्यते // 6 // बुधाः कर्मणामात्मप्रदेशसंश्लिष्टानां तापनात्तीक्ष्णं ज्ञानमेव तपः प्राहः, तत्तपोऽन्तरङ्ग प्रायश्चित्तादिकमिष्ट, बाझमनशनादिकं तदुपबृंहकं तत्प्रशंसकमाभ्यन्तरतपोवृद्धिहेतुः द्रव्यतपो भावतपसः कारणमेव, तेन तदिष्टम् / तदेव हि तपःकार्य, दुर्व्यानं यत्र नो भवेत् / येन योगा न हीयन्ते, क्षीयन्ते नेन्द्रियाणि च // 7 // __व्याख्या- तदेव हि तपः कत्तुं योग्यमस्ति यस्मिन् रौद्रध्यानं न भवेत्, यस्मात् योगाः हीनतां न अधिगच्छेयुः, इन्द्रियाणि च क्षयं न प्राप्नुयुः / कंथितं यत् XIOSAJIDEOTUDAG न तपः शुद्ध Ma ज्ञानमेव तनाव तेन तदिष्ट // 15 //