________________ शानसारे | तपोऽष्टकम् CacaICAacacaaaaa प्रायश्चित्तादिभेदवत् ज्ञानविशेषरूपान्तरणतपसो यदि वर्धकं तदैवेष्टमिति // 1 // आनुस्रोतसिकी वृत्ति-लानां सुखशीलता / प्रातिस्रोतसिकी वृत्ति-आनिनां परमं तप // 2 // व्याख्या-अज्ञानां संसारप्रवाहानुसारिणी ( "जणेण सद्धि होस्सामि" ) अहं लोकेन साई भविष्यामि इत्यादिलक्षणा प्रवृत्तिः सुखस्वभावताऽस्ति / ज्ञानवतां तु प्रवाहाभिमुखगमनरूपधर्मसंज्ञामूलक श्रेष्ठोग्रमासक्षपणादिप्रवृत्तिः तपोऽस्ति अत एव चतुर्बानी तीर्थकरः 'स्वतस्तद्भवसिद्धिगामी अस्मि' इति जाननपि तपः आदरयति // 2 // धनार्थिनां यथा नास्ति, शीततापादिदुःसहम् / तथा भवविरक्तानां, तत्त्वज्ञानार्थिनामपि // 3 // व्याख्या-यथा धनाभिलाषुकाणां शीततापप्रमुखं सोढुमशक्यं नास्ति तथा संसृतिविरक्तानां तत्त्वज्ञानार्थिनामपि शीततापादि दुःसहं नास्ति // 3 // सदुपोयप्रवृत्ताना-मुपेयमधुरत्वतः / ज्ञानिनां नित्यमानन्द-वृद्धिरेव तपस्विनाम् // 4 // ___ व्याख्या-सम्यगुपाये प्रवृत्तिमतां ज्ञानवतां तपस्विनां निरुपाधिकेच्छाविषयमोक्षरूपसाध्यस्य माधुर्यात् सदाऽऽनन्दस्य वृद्धिरेव भवति, यतः क्रियायामपि मोक्षसाधनमनोरथात् आनन्द एव भवति / वैराग्यरतौ कथितं यत् रतेः समाधावरतिः क्रियासु, नात्यन्ततीवास्वपि योगिनां स्यात् / अनाकुला वह्निकणाशनेऽपि, न कि सुधापानगुणाच्चकोराः // 1 // योगिनां समाधौ रतेर्भवनात अत्यन्ततीव्रक्रियासु अपि अप्रीतिर्न भवति / चकोराः अमृतपानगुणात् अग्निकणभक्षणेऽपि DRDOIGcaaaawar // 15 //