SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे ध्यानाष्टकम् GCGICIGIEMICICIGIENICOCO | साम्राज्यमप्रतिद्वन्द्व-मन्तरेव वितन्वतः / ध्यानिनो नोपमा लोके, सदेवमनुजेऽपि हि // 8 // | व्याख्या-येनेन्द्रियाणि जितानि तस्य जितेन्द्रियस्य, धीरस्य-सत्त्ववतः, प्रशान्तस्य-उपशमवतः अतो धीरप्रशान्तनाम्नो नवमरसनायकस्य स्थिरात्मन:-स्थिरः आत्मा यस्य तस्य स्थिरात्मनः, सुखासनस्थस्य-यस्य स्वामनं साधनेन सुखकारकमस्ति तस्य सुखासनस्य, नासाग्रन्यस्तनेत्रस्य-येन नासिकाग्रभागे-नेत्रे-नयने न्यस्ते स्थापिते तस्य नामानन्यस्तनेत्रस्य नासिकाग्रे स्थापितनेत्रस्य, योगिनः-प्रवृत्तचक्रस्य योगिनः, धारणा-कस्मिंश्चिद् ध्येये चित्तस्य स्थिरबन्धनं तम्याः धागप्रवाहः तया धारणाधारया, रयात-बेगात् रुद्धबाह्यमनोवृत्तेः-रुद्धा-अवरुद्धा बाहथेन्द्रियानुसारिमनोवृत्तिः येन तस्प रुद्ध बाह्यमनोवृत्तेःप्रसन्नचित्तस्य-प्रसन्नमनसः, अप्रमत्तस्य-प्रमादरहितस्य, चिदानन्दसुधालिहः-ज्ञानानन्दरूपामृतास्वादकस्य, अन्तरेव-आत्मन्येव अप्रतिद्वन्द्व-विपक्षरहितं साम्राज्यम्, वितन्वतः-विस्तारयतः, एतादृशस्य ध्यानवतो योगिनः देवलोके मनुष्यलोके च वस्तुतः उपमा-सादृश्यं नास्ति // 678 // सुरनरसहिते लोके, अत्र तिर्यनारकयोरग्रहणं तयोदुर्गतित्वात्, अर्थात् त्रिभुवने ध्यानिन उपमा सादृश्यं नास्ति / किं कुर्वतो ध्यानिनः ? अन्तरेव आत्ममध्य एव अप्रतिद्वन्द्वं बाझान्तरविपक्षरहितं साम्राज्यं स्वगुणसम्पत्स्वभावपरिवारोपेतं राज्यं स्वाधीनं विस्तारयतः / पुनः कथंभूतस्य ध्यानिनः ? जितेन्द्रियस्य धीरस्य स्ववीयसामयेन परीषहोपसर्गेऽप्यकम्पस्य / पुनः प्रशान्तस्य कषायोद्रेकमुक्तस्य पुनः स्थिरात्मनः साधनपरिणतौ निश्चल आत्मा यस्य स तस्य / पुनः सुखासनस्य सुखमयमासनं पद्मासनादि यस्य तस्य / पुनः नासाग्रे चापल्यरोधनाय न्यस्ते स्थापिते लोचने येन तस्य / पुनः योगिनो रत्नत्रयमग्नस्य (निश्चलयोगत्रिकस्य वा) पुनः ध्येये चित्तस्य स्थर्यबन्धनं धारणा तस्या धारया धारणाधारया-रयात् शीघ्रं रुद्धबाहयमनोवृत्तेः रुद्धा बाझा मनोवृत्तिर्मनोव्यापारो येन तस्य / पुनः प्रसन्मस्य-मनःकालुष्यरहितस्य / पुनः अप्रमत्तस्य अज्ञानाद्यष्टप्रमादरहितस्य ! पुन: चिदानन्दसुधालिहः-ज्ञानानन्दा BecaeroCESevar // 148 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy