________________ ज्ञानसारे ध्यानाष्टकम् kearalegacacealeraigat अथैकदा स मुनिः कस्यापि दुर्वाक्यं श्रुत्वा जातकोपस्तेन समं योद्धु प्रववृतेतराम् / तेन द्विजेन स क्षुरक्षामदेहः क्षपको मुष्टयादिभिर्हत्वा पृथ्ख्यामपात्यत / मुहुर्मुहुर्द्विजेन ताडयित्वा स मुमुचे / ततः अपकोऽपि कथश्चन स्वस्थानमगमत् / अथ विभावयाँ विभाभिर्भासुरा सुरी मुनिपावे समाजगाम, पूर्ववत् तत्पादौ प्रणनाम / क्षपकस्तु तां देवीं न किञ्चिजजल्प / अजल्पन्तं तं साधु देवता पप्रच्छ-'स्वामिन् ! कुतोऽपराधादद्य मां न जल्पसि ?" ततो वाचंयमोऽप्युच्चरित्युवाच-"द्विजेन हन्यमानोऽपि यन्नाहं त्वया रक्षितः ममापकारिणश्च तस्य न किञ्चिदपकृतं तो वाणीमात्रेण प्रीतिकारिणी स्वां न वादयामि / तदाकर्ण्य स्मितविच्छुरिताधरा देव्यभ्यधात्-“यदाऽन्योन्यविलग्नयोर्युवयोयुद्धमभवत्तदा कौतुकदर्शिन्यहमपि तत्रैवाभूवं, किंतु तदा कोपाविष्टौ तुल्यौ युवां दृष्टौ मया, तेन कः साधकः कश्च द्विज इति नाहमज्ञासिषं, तस्मयुष्मद्रक्षां विप्रशिक्षां च न व्यधाम् / " इति श्रुत्वा क्षपकः शान्तकोपाटोप इत्यत्रवीत्-. सूनृता प्रेरणा देवि !, त्वयाऽसौ विहिता मम / तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे // 1 // हे देवि ! मया ध्यानशास्त्रं बहुयत्नैः पठितं पाठितं श्रुतमनुमोदितं च, परं कार्योत्पत्तौ न स्मृतिपथमागतम् यतः शून्यं ध्यानोपयोगेन, विंशतिस्थानकाद्यपि / कष्टमात्रं त्वभव्याना-मपि नो दुर्लभं भवेत् // 1 // ध्यान चित्तैकाग्रतारूपं तदुपयोगेन शून्यं विंशतिस्थानकादि तपोव्यूह कायक्लेशरूपं, तत्त अभव्यानामपि नो दुर्लभं भवेत बाझाचरणं जिनोक्तमपि बहुशोऽभव्यैः कृतपूर्वमिति / अथ ध्यानकारकस्य स्वरूपमाहजितेन्द्रियस्य धीरस्य, प्रशान्तस्य स्थिरात्मनः / सुखासनस्य नासाग्र-न्यस्तनेत्रस्य योगिनः॥६॥ रुद्धबाह्यमनोवृत्ते - र्धारणाधारया रयात् / प्रसन्नस्याप्रमत्तस्य, चिदानन्दसुधालिहः // 7 // CaCaracalebramaeSae // 147 //