________________ ज्ञानसारे ध्यानाष्टकम् aorserGESDedeoasat स्वस्वरूप प्राप्त, यस्य च मनोऽन्यत्र नास्ति एताहशस्य मुनेः दुःखं न भवति // 1 // ध्याताऽन्तरात्मा ध्येयस्तु, परमात्मा प्रकीर्तितः। ध्यानं चैकाग्रयसंवित्तिः, समापत्तिस्तदेकता // 2 // ____ व्याख्या- ध्यानकर्ता अन्तरात्मा-सम्यग्दर्शनपरिणामवान आत्माऽस्ति, ध्यातुं योग्यः परमात्मा-सिद्धभगवान् अथवा क्षीणघातिकर्मा तीर्थकरः, ध्यानम्-एकाग्रबुद्धिः विजातीयज्ञानाव्यवहितसजातीयज्ञानधारारूप: या एतत्त्रयस्यैकता सा योगाचार्य- | मते समापत्तिः कथिता / प्रवचनसारे कथितं यत् जो जाणदि अरिहंते, दबत्तगुणत्तपज्जवत्तेहिं / सो जाणदि अप्पाणं, मोहो खलु जादि तस्स लयं // 1 // योऽरिहन्तारं द्रव्यगुणपर्यायः जानाति स आत्मानं जानाति, तस्य च मोहो नश्यति / विशेषावश्यके कथितं यत्जं थिरमज्झवसाणं, तं झाणं चलं तयं चित्तं / तं होज्ज भावणा वा, अणुप्पेहा वा अहब चित्ता // 1 // यत्स्थिरमतः अस्ति तद् ध्यानमस्ति, यच्चलायमानं तत् चित्तं तद्भावना ध्यानस्याभ्यासक्रिया अनुप्रेक्षा-मननरूपा चिन्तनरूपा वा भवति // 2 // समापत्तेर्लक्षणम् - मणाविव प्रतिच्छाया, समापत्तिः परात्मनः / क्षीणवृत्तौ भवेद् ध्याना-दन्तरात्मनि निर्मले // 3 // व्याख्या- यथा मणौ प्रतिबिम्बः पतति तथा ध्यानात् क्षोणात्यन्तमलवृत्तौ अत एव निर्मले मलशून्येऽन्तरात्मनि CZASTUPIDDDD // 145 //