SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ज्ञानसारे Carverave पापध्वंसिनि निष्कामे, ज्ञानयज्ञे रतो भव / सावधैः कर्मयज्ञैः किं, भूतिकामनयाऽऽविलैः // 2 // I नियागाष्टकम् व्याख्या- हे वत्स ! पापविनाशके कामनारहिते ज्ञानरूपे यज्ञे आसक्तो भव / ऐहिकसुखेच्छया मलिनैः पापसहितः | ज्योतिष्टोमादिकर्मयज्ञैः किं फलम् , न किमपीत्यर्थः। "भूतिकामः पशुमालभते" "ऐश्वर्याभिलाषुकः पशुहोमं कुर्यात्" इत्यादि श्रुत्यनुसारात्स सकामयज्ञः कथितः // 2 // वेदोक्तत्वान्मनःशुद्धया, कर्मयज्ञोऽपि योगिनः / ब्रह्मयज्ञ इतीच्छन्तः, श्येनयागं त्यजन्ति किम् // 3 // ___व्याख्या-केचित्कथयन्ति यत्-प्रतिपदोक्तफलत्यागाद्वेदोक्तक्रियया सत्त्वशुद्धिद्वारा ज्ञानसम्पत्तये क्रियमाणकर्मयज्ञः ब्रह्मयज्ञो भवेत् इति मतम्-वेदानुवचनेन ब्राह्मणाः विविदिषन्ति, यज्ञेन दानेन तपमा इत्यादि श्रुत्याऽस्ति तन्मतं दूषयन्ति-वेदे कथितत्वाद्यदि कर्मयज्ञोऽपि मनसः शुद्धिद्वारा ज्ञानयोगिनो ब्रह्मयज्ञो भवेत् इत्यभिलषन्तः श्येनयागं कथं त्यजन्ति // 3 // ब्रह्मयज्ञ परं कर्म, गृहस्थस्याधिकारिणः / पूजादि वीतरागस्य, ज्ञानमेव तु योगिनः / / 4 // व्याख्या-न्यायोपार्जितधनः इत्यादि कथितस्वरूपवतोऽधिकारसहितस्य गृहस्थस्य गृहस्थस्य वीतरागस्य पूजादिकं N| स्वरूपतः सावद्यानुष्ठानकर्म ब्रह्मयज्ञोऽस्ति ज्ञानयोगिनस्तु सर्वोपाधिरहितशुद्धज्ञानमेव ब्रह्मयज्ञोऽस्ति // 4 // भिन्नोद्देशेन विहितं, कर्म कर्मक्षयाक्षम् / क्लृप्तभिन्नाधिकारं च, पुढेष्ट्यादिवदिष्यताम् // 5 // // 137 // CBOOTCDDsrae ena
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy