________________ बानसारे शाखाष्टकम् प्रतिबोधार्थ स्वपुरे गच्छामि" ततोऽवादीस्वामी-“हे वत्स ! त्वं पठ, मा ब्रज / " यमकैनिविण्णः स पुनर्गुरुमपृच्छत्--'कियन्मात्र मया दशमपूर्वमधीतम् ?" ततः स्मित्वा सूरिरवदत्--"हे वत्स ! बिन्दुमात्रं दशमपूर्वस्य स्वयाऽऽदायि शेषं तु जलधेः समं, किं विषीदसि त्वं ? सोद्यमोऽसि, सुधीरसि, तदस्य त्वरितं पारं त्वं लप्स्यसे / " इत्थमध्येतुमुत्साहितोऽपि पुनः पुनः स्वानुजेन सह गुर्वन्तिकं गत्वा इत्युवाच-"असौ मद्माता ममाह्वातुमिहाययो, तदादिशत मां पूज्याः ?" ततः श्रुतोपयोगः स्वामिना दत्तः / यतः नागन्ताऽसौ गतः सद्यः, स्वल्पमायुर्ममापि च / तदेतदशमं पूर्व, मयि स्थास्यति निश्चितम् // 1 // ज्ञात्वेत्यनुमतो गन्तुं, श्रीवजेणार्यरक्षितः / पुरं दशपुरं फल्गु-रक्षितेन समं ययौ 12 // तत्र धर्मदेशनां दत्त्वा स्वकुटुम्ब प्रबोधयामास / नृपः सम्यक्त्वं प्राप / अन्यदा सौधर्मेन्द्रः श्रीमहाविदेहे श्रीसीमन्धरजिन प्रणम्य सूक्ष्मनिगोदस्वरूपं श्रुत्वा पप्रच्छ-"स्वामिन् ! भरतक्षेत्रे कोऽपि तादृशः सूक्ष्मनिगोदस्वरूपकथकोऽस्ति ?" प्रमुणोक्तं"श्री आर्यरक्षितोऽस्ति / " तत इन्द्रस्तत्रागत्य सूरि नत्वा यथार्थ वस्तुस्वरूपं निगोदादीनां श्रुत्वा हृष्टः स्वर्ग जगाम / ततः श्रीआर्यरक्षितस्वामी पृथक्पृथक् चतुरोऽनुयोगानस्थापयत् / ततोऽनशनेन दिवं प्रापेति / मुक्त्वा नवोढां रतिसौख्यमाश्रयां, नौतन्यशास्त्रार्थग्रहोद्यमे रतः / देवेन्द्र वन्यो गुरुरायरक्षितो, जातस्तथाऽन्यैरपि भाव्यमणिभिः // 1 // // इति चतुर्विशे शास्त्राष्टके आयरक्षितमरिकथानकम् // 24 // | पुरःस्थितानिवोधि-स्तिर्यग्लोकविवर्तिनः / सर्वान भावानवेक्षन्ते, ज्ञानिनः शास्त्रचक्षुषा // 2 // EvaicseNavaelaedievalaice // 117 //