SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ शाखाष्टकम् ज्ञानसारे DIETISTATAS SONORA . व्याख्या-ज्ञानिनो जनाः शास्त्ररूपलोचनेन अग्रे स्थितानिव सौधर्मादूर्ध्वलोके नरकाबधोलोके जम्बलवणादितिर्यग्लोक च विविधपरिणाम प्राप्नुवतः सर्वान् भावान् माक्षात्पश्यन्ति / अत्र श्रुतसहचरितमानसा चाक्षुषदर्शनेनावेक्षन्ते एवं बोद्धव्यम् // 2 // शासनात्त्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते / वचनं वीतरागस्य, तत्तु नान्यस्य कस्यचित // 3 // विपश्चितः पथ्यशिक्षणात रक्षणसामथ्योच्च शास्त्रशब्दस्य व्युत्पत्ति कुर्वन्ति स्म, तत् सर्वगुणसहितकेवलज्ञानं मलं कारणं यस्यास्ति एतादृशस्य वीतरागस्य वचनमस्ति, नान्यस्य कस्यचिद्वचनं शास्त्रपदव्यपदेष्टव्यमस्ति, तदुक्तं प्रशमरतो यद- . शासनसामर्थ्येन च, संत्राणवलेनानवद्येन / युक्तं यत्तत् शास्त्रं, तच्चैतत्सर्वविद्वचनम् // 2 // तिशिक्षणशक्त्या निर्दोषरक्षणसामर्थ्येन च यद्युक्तं स्यात् तच्छास्त्रं सर्वज्ञवचनमस्ति // 3 // शास्त्रे पुरस्कृते तस्मा-द्वीतरागः पुरस्कृतः। पुरस्कृते पुनस्तस्मिन्, नियमात्सर्वसिद्धयः॥४॥ व्याख्या-तस्माद येन पुरुषेण शास्त्रमग्रे कृतं अर्थात् मुख्यं कृतं तेन भगवान् वीतरागोऽग्रे कृतः, शास्त्रोपयोगेन तत्कर्ता स्मर्यत एव वीतरागोऽग्रे कृतः, एतेन नूनं सर्वाः सिद्धयो भवन्ति / उक्तं च। अस्मिन् हृदयस्थे सति, हृदयस्थस्तत्त्वतो मुनीद्र इति / हृदयस्थिते च तस्मिन्, नियमात्सर्वार्थमिद्धयः॥१॥ -पोडशक / / श्लोक 14 तीर्थक्षाप्रणीतागमो यदा हृदिस्थः स्यात्तदा परमार्थतः भगवान् तीर्थकृत् हृदिस्थो भवति, यतो हि म तस्य स्वतन्त्रप्रणेता अस्ति / यदा भगवान् तीर्थंकरः हृदयस्थो भवेत्तदाऽवश्यं सर्वार्थसिद्धयो भवन्ति // 4 // GIADCASCADEZAC // 118 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy