SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 1950 ज्ञानसारे भवोद्वेगा ट्रकम GOOGalaalac दिसुखहेतुरूपं मत्वा मुझन्ति, भवाब्धौ मत्स्या इव जीवा ऐश्वर्यादिषु मिथ्यावासनावासिता भ्रमन्ति; ततो भवोदेग एव कार्यः, स एवोपसर्गेषु साहाय्यदायको ज्ञेयः" इत्यादि श्रीगुरूपदेशाच्छ्रुत्वा प्रबुद्धः सुकोशलो व्रतं ललौ / सहदेवी तु पुत्रवियोगपतिद्वेषाभ्यां मृता वने व्याघ्रो जाता / देवात् कीर्तिधरसुकोशलमुनी तत्राययतुः चतुर्मासीतपश्चक्रतुः / पारणकदिने गच्छन्तौ तौ व्याघ्रथा दृष्टी, मुनी तु प्राणान्तोपसर्ग ज्ञात्वा कायोत्सर्ग चक्रतुः / सुकोशलमुनिर्व्याघ्रथा भक्ष्यमाणः क्षपकश्रेण्यारूढः केवलज्ञानमवाप्य सद्यो मुक्ति ययौ। ततः श्रीकीर्तिधरमृषि भक्षयन्ती व्याघ्री तन्मुखे स्वर्णखचितदन्तान् दृष्ट्वा जातिस्मृति प्राप्ता स्वपति विज्ञाय प्राप्तपश्चात्तापा समादायानशनं सहस्रारं स्वर्ग गता। कीर्तिधरोऽपि शुक्लध्यानेनाजरामरं पदं प्रापेति / लब्धोपसर्गोऽपि जहाँ न तत्वगं, दाढ्यंभवोद्वेगरतः सुकोशलः / . तद्वद्वताह मुनिमावसङ्गतैर्धार्या तथा कीर्तिपुरषिवन्मतिः // 1 // // इति द्वाविंशे भवोद्वेगाष्टके सुकोशलमुनिकथानकम् // 22 // स्थैर्य भवभयादेव, व्यवहारे मुनिव्रजेत् / स्वात्मारामसमाधौ तु, तदप्यन्तर्निमज्जति // 8 // व्याख्या-व्यवहारनयेन मुनिः संसारभयादेव स्थिरतां प्राप्नोति स्वात्मनो रतिरूपनिर्विकल्पे समाधौ सति तदा संसारभयमपि समाधावेव निमज्जति / उक्तं च ___ "मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः / " मोक्षऽथवा संसारे सर्वत्र उत्तमो मुनिः निस्पृहो भवति इति शास्त्रवाक्यमस्ति / aaaaaaaax // 109 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy