SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सानसारे भवोद्वेगाप्टकम् aco CSICCACEAICAC अयोध्यायां कीर्तिधरो राजा सहदेवीपत्नीयुक्तो राज्यं चक्रे / अन्यदा सुकोशले पुढे जाते राजा दीक्षा ललौ / सुकोशलो देशाधिपत्यं चक्रे / अन्यदा कीर्तिधरमुनिर्मध्याहे भिक्षार्थ नगरमध्ये प्रविशन्सहदेव्या दृष्टः, दथ्यौ च सा-"यदि कदाचित् कीर्तिधरं पितरं सुकोशलो द्रक्ष्यति तदा दीक्षां गृहीष्यत्येव / " एवं ध्यात्वा सा तं सेवकपाश्र्थात् पुराइहिनिष्कासयामास / सुकोशलधात्री रोदिति / सुकोशलोऽवादीव "मातः ! किं रुद्यते त्वया ?" साऽवक्-"तव पिता मुनिस्तव मात्रा पुराद्धहिः कर्षितः / " तदाकर्ण्य. सर्वद्धर्या वन्दितुं भूपो ययौ / धर्म श्रुत्वा पपच्छ-"स्वामिन् ! महोपसमें प्राप्तेऽपि निग्रन्था निर्भयत्वं कथं रक्षन्ति ?" तदा मुनिः प्राह - विर्ष विषस्य वह्वेश्च, वह्निरेव यदौषधम् / तत्सत्यं भवभीताना-मुपसर्गेऽपि यन्न भीः // 7 // ___ व्याख्या-विषस्यौषधं विषमेव, अग्नेश्वौषधमग्निरेव कथ्यते तत् सत्यं वत्तते, यतः संसारभीतानामुपसर्गप्राप्तावपि भयं न भवति // 7 // ____“यथा कश्चिद्विषपीडितो विषस्यौषध विषमेव करोति, यथा सर्पदष्टः निम्बादिचर्वणे न बिभेति / अथवा कश्चिदग्निदग्धः पुनरपि अग्निदाहपोडानिवारणाय पुनरग्नितापमङ्गीकरोति, तत्सत्यं, यतः भवभीतानां मुनीनामुपसर्गेऽपि भवसंचितकर्मक्षपणायोद्यतानां न भीतिः, उपसगैबहुकर्मक्षपणं मन्वानाः साधवो न भयवन्तो भवन्ति, साध्यकार्यनिष्पत्तौ साहाय्यकारिकारणत्वात् इति / मुनिस्तत्त्वज्ञानी भवभयात् नरकनिगोददुःखोद्वेगाव व्यवहारे एषणादिक्रियाप्रवृत्तौ स्थैर्य व्रजेत् गच्छेत् लभेतेत्यर्थः / स्वात्मारामसमाधौ ज्ञानानन्दादिरूपे तदपि भवभयमपि अन्तर्मध्ये निमज्जति, लयीभवति, स्वत एव विनश्यति, आत्मध्यानलीलालीनानां सुखदुःखसमावस्थानां भयाभाव एव भवति / अत्र भवमग्नानां जीवानां धर्मेच्छा न भवति, इन्द्रियसुखास्वादलीना मत्ता इव निर्विवेका भ्रमन्ति, दुःखाग्निना इतस्ततो दुःखापनोदार्थमनेकोपायचिन्तनव्याकुला भ्रमन्ति सूकरा इव महामोहभवाम्भोधौ, किमन्यत्, सर्वसिद्धिकरं श्रीमद्वीतरागवन्दनादिकमपि न कुर्वन्ति, इन्द्रियसुखार्थे च तप उपवासादिकष्टानुष्ठानमाजन्मकृतं हारयन्ति, निदानदोषान्न गणयन्ति, मोक्षहेतुरूपं जैनशासनं देवा OPGEROESOCCESSED // 108 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy