SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ बानसारे कर्मविपाकचिन्तनाष्टकम् NDIOSADAS शम्मुर्जगो-"सत्यमेव कर्मकृतं सुखं दुःखं च जीवा लभन्ते" इति मन्दादिसर्वदेवैः 'कृतकर्मझयो नास्ति' इति प्रमाणीकृतम् इत्यादि कर्मविपाकस्वरूपं श्रीगुरुमुखाच्छ्रुत्वा स विप्रो दध्यो-“यदि ममापि रोगोपशान्तिर्भवति तदाऽहमपि श्रीगुरुसदृशो भवामि" साधुभिरुक्तम्-"सर्वमौषधं मुक्त्वा त्वमेकं नमस्कारं सदा गणय, षण्मासी यावदपरं ध्यानं न कार्यम् / " ततस्तस्य नमस्कारं गणयतः कुण्डो गतः / स सुश्रावको जातः / सर्व धनं व्ययित्वा चारित्रं गृहीत्वा स्वर्ग गतः कदम्बः / / मिथ्यात्वहेत्वादिभिरात्मना कृतं, कृतं ददात्येव विपाकदारुणम् / श्रुत्वेति वाचं हि कदम्बको द्विजः, प्राप स्वरूपं प्रविधेयमन्यकैः // 1 // इति एकविंशे कर्मविपाकाष्टके कदम्बविप्रकथानकम् // 21 // जातिचातुर्यहीनोऽपि, कर्मण्यभ्युदयावहे / क्षणाद्रकोऽपि राजा स्यात्, छत्रछन्नदिगन्तरः // 3 // ___ व्याख्या-जातिचातुर्याभ्यां विहीनोऽपि जनः अभ्युदयकारकशुभकर्मोदये सति क्षणमात्रेण रङ्कोऽपि नन्दादिवत् छत्राच्छादितदिशामण्डलः सन् राजा भवति ॥शा 8 विषमा कर्मणः सृष्टि-दृष्टा मरभपृष्ठवत् / जात्यादिभूतिवैषम्यात्, का रतिस्तत्र योगिनः // 4 // व्याख्या-जात्याद्युत्पत्तिविषमतया कर्मणो निर्माणमुष्ट्रपृष्ठवत् कुत्रापि समानं नैव दृश्यते तस्मात्कर्मणः सृष्टौ योगिनः कथं प्रीतिः स्यात् उक्तं च जातिकुलदेहविज्ञानायुर्बलभोगभूतिवैषम्यम् / दृष्ट्वा कथमिह विदुषां, भवसंसारे रतिर्भवति // 1 // // 104 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy