________________ ज्ञानसारे कर्मविपाकचिन्तनाष्टकम् KOHaeroUGEOGODOGoa नवश्रोतःस्रवद्विन ! सरन्निस्यन्दपिच्छले / देहेऽपि शौचसंकल्पो, महामोहविजम्मितम् // 2 // श्रुत्वैतद्दध्यौ द्विजः-"अहं मुधा शुचिवादं करोमि, अहो ! एत एव शुचयः, ब्रह्मचारी सदा शुचिः" इति ध्यात्वा पुनर्विषो गुरु' स्माह-"स्वामिन् ! देहे दुस्सहा व्यथा, क्षगमात्रमपि रतिं न प्राप्नोमि" तदा सूरिरवोचत् - 'कर्मणां रचनासृष्टिः करमपृष्ठवत् विषमा ज्ञेया" यतः जातिकुलदेहविज्ञानायु-बलभोगभूतिवैषम्यम् / दृष्ट्वा कथमिह विदुषा-मिह संसारे रतिभवति // 1 // अपि च कश्चिन्मुनिः रत्नत्रयीपरिणतस्तीव्रक्षयोपशमोऽपूर्वकरणबलेनोपशमश्रेणिमुपास्य चारित्रपरिणतिमारूढः सर्वथा मोहोदयरहितः च पुनः श्रुतकेवल्यपि दुष्टेन कर्मणा सत्तागतेन मोहेन उदयावस्थायोग्यभूतेन अथवाऽऽयुःकर्मप्रान्तकरणेन प्रतिपातमापनो गतिचतुष्टये भ्रमति, अतोऽहो ! दुष्टेन मोहेनानन्तसंसारो भ्रम्यते / अतः कर्मायत्ता चेतना न कार्या / पुनः कर्मणां वैषम्यं श्रृणु कश्चितकोऽपि क्षणादभ्युदयावहे शुभोदकें कर्मणि नृपः स्यात् , नृपश्चाशुभकर्मविपाकोदये रङ्कः स्यात्, यतः पुराणे यादृशं क्रियते चित्तं, देहिभिर्वर्णनादिषु / तादृशं कविवन्नूनं, जायते सततं जने // 1 // एकदा बहुषु ब्रह्मादिदेवेषु मिलितेषु स्वस्वोत्कर्ष जल्पत्सु शशिना प्रोक्तम्-"अहं सर्वेषु देवादिषु सुखदुःखे कत्तुंभमः / " तदेश्वरेणोक्तम्-"ज्ञास्यते तव कृतं सुखं दुःखं च" एवं प्रोच्य शम्भुः स्वगृहे एत्य पार्वती प्रति स्वचेष्टितं जगौ / ततः शम्मुः स्वयं महिषरूपं विधाय पार्वत्या महिषीरूपं कारयित्वा नगरखालेऽशुचिमये स्थितः / द्वावपि तृतीदिने तस्मिन्व्यतीते पार्वतीपरमेश्वरी खालानिर्गत्यागतौ स्वगृहे / तत ईश्वरः शनिपार्श्व गत्वाऽवक्-"त्वदीया दशा गता कल्ये, स्वया किमपि दुखं न दत्तम् / " शनिर्जगौ"त्वं कुत्रास्थाः ?" ईश्वरः स्वस्थितिं जगौ। ततः शनिः प्राह-अहं किं स्कन्धे हन्मि ? नैव, किन्तु तादृशीं धियं ददामि यथा स्वयं दुःखे पतति, त्वं त्वशुचिमये खले स्थितः अतः परं किं दुःखं ? अहं जनेभ्यो दुःखादिकं ददामि तदपि कर्मणा प्रेरितः ततः DICISIOLOGaaelaica // 1.3 //