SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ बानसारे। सर्वसम बमबारबारमानन व्याख्या-ध्याता ध्यानं ध्येयमिति त्रयाणामेकतारूपसमाधिरेव नन्दनवनमस्ति येन परिषहरूपपर्वतस्य पक्षच्छेदः स्यात् तद् धैर्य वजमस्ति समता मध्यस्थपरिणतिः सैव इन्द्राणी अस्ति स्वरूपावबोधरूपं ज्ञानमेव महाविमानमस्तीत्थं मुनेः इन्द्रसम्पत्तिरस्ति // 2 // मुनेः स्वरूपज्ञानानुभवलीनस्य इयं वासवस्य श्रीः शोभा (लक्ष्मीः) वर्त्तते-ध्यानधातृध्येयैकत्वेन निर्विकल्पानन्दरूपा समाधिः तदेव नन्दन वनं, हरेनन्दनवनक्रीडा सुखायोक्ता साधोश्च समाधिक्रीडा सुखाय / मुने धैर्य वीर्यमकम्पता औदायिकभावेनाक्षुब्धतालक्षणं तदेव दम्भोलिः वाम् , समतैव शची स्वधर्मपत्नी, ज्ञानं सर्वावबोधकरं तदेव महाविमानमित्यादिसम्पत्परिवृतो मुनिर्वञ्जीव भासते। | विस्तारितक्रियाज्ञान-चर्मच्छत्री निवारयन् / मोहम्लेच्छमहावृष्टिं, चक्रवर्ती न किं मुनिः॥३॥ || .. व्याख्या-योगपरिणतिरूपा क्रिया, उपयोगपरिणतिरूपं ज्ञानं ते ज्ञानक्रिये एव चर्मरत्नच्छत्ररले येन विस्तारिते म तथाभूतः सन् मोहरूपम्लेच्छेन प्रेरितमिथ्यात्वदन्येन कृतकुवासनारूपां महावृष्टिं निवारयन्मुनिः किं चक्रवर्ती नास्ति // 3 // सुरेषु इन्द्रः श्रेष्टः, मनुष्येषु चक्रवर्ती, तयोऋद्धिसौख्यं मुनिस्वभावेऽन्तर्भूतं तर्हि अन्येषां का कथा ? तथाऽईत. सौख्यमप्यन्तर्भवतीत्याह रत्नस्त्रिमिः पवित्रा या, श्रोतोभिरिव जाहवी / सिद्धयोगस्स साऽप्यस्-त्पदवी न दवीयसी // सिद्धयोगस्य अष्टाङ्गयोगसाधनसिद्धस्य साधोः साऽपि अहत्पदवी ज्ञानाद्यनन्तचतुष्ट्यात्मिकाऽष्टप्रातिहार्यान्विता जगद्धर्मोपकारिणी न दवीयसी न दूरेत्यर्थः / किं भूता पदवी ? त्रिभिः रस्नैः पवित्रा / केन ? स्रोतोभिः प्रवाहैः जाह्नवी गङ्गा इवेति CACACACADEADC // 19 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy