SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ज्ञानसार अनात्मशंसाष्टकम् Xoranracacacacaacaae मृकानगाँ मे चक्र-वर्तित्वं च भविष्यति / भाव्यहं चरमश्चाहन, पर्याप्तमपरेण मे // 2 // आद्योऽहं वासुदेवानां, पिता मे चक्रवर्तिनाम् / पितामहस्तीर्थकृता-महो मे कुलमुत्तमम् // 3 // इत्यात्मप्रशंसां चकार, तेन नाचगोत्रकर्मोपार्जितम् / अन्यदा तस्य शरीरे व्याधिरुत्पन्नः / साधुभिरपाल्यमानो ग्लान एवं दध्यो-"अहो अमी साधवो निर्दाक्षिण्या, मम पालनं दूरेऽस्तु. परं दृश्या ईक्षन्तेऽपि न ! यद्वा दुश्चिन्तितमिदं मया, स्वतनोरपि परिचर्या न कुर्वन्ति तर्हि भ्रष्टस्य, मम कथं कुर्युः ! अतो व्याधिषु गतेषु शिष्यमेकं करिष्यामि" एवं ध्यायन्मरीचिः पटुरभवत् / अन्यदाऽस्य कपिलः कुलपुत्रको मिलित , तत्पुर आर्हतं धर्म धर्मार्थो सज्ञापितस्तेन / ततः कपिलोऽब्रवीत-किं त्वन्मार्गे धर्मो न विद्यते ? ततः जिनधर्मालसं ज्ञात्वा, शिष्यमिच्छन्स तं जगौ / मार्गे जैनेऽपि धर्मोऽस्ति, मम मार्गेऽपि विद्यते // 1 // तच्छिष्यः कपिलोऽथाभूत , मिथ्याधर्मोपदेशनात् / 'मरीचिरप्यब्धकोटी-कोटीसंसारमार्जयत् // 2 // मरीचिस्तदनालोच्य, विहितानशनो मृतः / ब्रह्मलोके दशोदन्व-अमितायुः सुगेऽभवत् // 3 // शिष्यान्विधायासूर्यादीन, स्वाचारानुपदिश्य च / विपद्य च ब्रह्मलोके, कपिलोऽप्यमरोऽभवत् // 4 // स प्रारजन्मावधेत्विा, मोहादभ्येत्य भृतले / स्वयं कृतं साङ्ख्यमत-मासूर्यादीनबोधयत् // 5 // साव्यमत्र तदाम्नायात् प्रावत च दर्शनम् / सखसाध्ये हनुष्ठाने, प्रायो लोकः प्रवर्तते // 6 // पञ्चविंशतितत्वज्ञो, मोक्षं प्राप्नोति निश्चितम् / क्रियां करोतु वा मा वा, ज्ञानवादिमत ह्यदः // 7 // Xe OOOOOOOOOOOO // 9 //
SR No.600448
Book TitleGyansarashtakam
Original Sutra AuthorN/A
AuthorYashovijay
PublisherVadilal Mohakambhai Vakil
Publication Year1962
Total Pages184
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy