________________ निर्भयाष्ट कम् IN भयरूपाणां सर्पाणां वेष्टनं कुतः स्यादिति // 5 // // अथ सप्तदशे निर्भयाष्टके स्कन्दकर्षिकथानकम् // 17 // श्रावस्त्यां जितशत्रुसुनः स्कन्दकोऽभूत् / तद्भूपसुता पुरन्दरयशा जितशत्रुभूपेन कुम्भकारपुरेशाय दण्डभूपाय परिणायिता / तस्य पालकाभिद्योऽभव्यः पुरोहितो दुष्टोऽस्ति / अथान्यदा सुव्रतस्वामो श्रावस्त्यां समवासार्षीत् / धन्यंमन्यः स्कन्दकस्तं नन्तुमगाव / श्रीजिनदेशनां श्रुत्वा श्राद्धधर्म प्रत्यपद्यत / एकदा स पाल कः पुरोधाः किञ्चद्वाजकार्यार्थ श्रावस्त्यामाययौ स च भूपसभामध्ये निर्मन्थग्रहणां कुर्वन् द्रुतं स्कन्दकेन निरुत्तरीचक्रे / तदनु तदुरि द्वेषं वहन् स स्वास्पदं ययौ। ततो मुक्तभोगः स्कन्दको विरक्तचेता मयानां पञ्चभिः शतैः साकं श्रीजिनान्तिकं प्रात्रा जोत् / कमारस्कन्द के बहुश्रुते जाते सुव्रतप्रमुः तानि पञ्च साधुशतानि तस्मै शिष्यतयाऽदात् / _ अन्येद्यहन्तं स्कन्दकः पृष्टवान्–'यदि प्रभोरादेशः स्यात्तदाऽहं स्वसुर्देशं व्रजामि' प्रमुर्जगौ-तत्र मारणान्तिक उपसर्गः सर्वेषामुत्सस्यते' तच्छ्रत्वा स स्माह-वामिन् ! तस्मिनुपसर्गे समुपस्थिते वयमाराधका भविष्यामो विराधका वा स्वामी स्माह"वां विना सर्वेऽप्याराधकाः" तनिशम्य निर्भयः स दध्यो आराधका इयन्तः स्युः, विहारे यत्र माधवः / नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् / 1 / / क्रमा कुम्भकार पुरोपवनं प्राप / तत्पापिना पाल केन श्रुतम् / ततः प्राग्वरशुद्धयर्थ तत्रोद्याने पुरोधाः प्रच्छन्नं विविधशस्त्राणि गोपयामास / तदनु नृां स्माह-"स्वानिन् ! स्कन्दमत्र गताऽस्ति, अयं स्वयं महावीर्यः प्रचण्डदोर्दण्डविक्रमः साधुओषधरैर्भटानां पञ्चशत यु तो बाभूगापितशत्रको वन्दितुं गत वा हत्वा राज्यमे द ग्रहोष्यति / स्वामिन् ! मवचने प्रत्ययो न चेत्तव तदा तद्गोपितास्त्राणि स्वयं वने गत्वा विलोकय" इत्युक्त्या व्युनाझ तानि दशितानि / ततो नृपः क्रुद्धो मुनीन् सर्वानबन्धयत् / तानिबद्धथ acca DELICATOX DeocacACACACAC // 85 //